________________
नित्योत्सव :
विघ्नोत्सारणान्त ( २ ), तदादिन्यासान्त ( ३ ), तदादिपात्रासादनान्त ( ४ ), तदादि - लयाङ्गपूजान्त (५), तदाद्यावरणार्चनान्त ( ६ ), तदादिहवनान्त ( ७ ), तदादि सौभाग्यहृदयामर्शनान्त ( ८ ) . तदादिहविः प्रतिपत्त्यन्त ( ९ ), तदादिदेवतोद्वासनान्त (१०). तदादिविशेषार्ध्यविसर्जनान्तेषु (११), पदार्थेषु यागगृहप्रवेशादिहवनान्तं पदार्थानुसमयेन काण्डानुसमयेन वा क्रमं प्रवर्त्य तरुणोल्लासवान् शिप्यमाहूय नूतनेन वाससा तस्य मुखं बद्ध्वा गणपत्यादिमूलमन्त्रानुच्चारयन् पात्रपञ्चकसामान्यार्थ्योदकबिन्दुभिः तमवोक्ष्य त्रैपुरं तन्त्रसिद्धान्तं श्रावयेत् ॥
८
त्रैपुर सिद्धान्त:
यथा -- पृथिव्यप्तेजोवायुवियन्ति भृतानि पञ्च । गन्धरसरूपस्पर्शशब्दाः तन्मात्राणि पञ्च । उपस्थपायुपादपाणिवाचः कर्मेन्द्रियाणि पञ्च । घ्राणरसनाचक्षुस्त्वक्श्रोत्राणि ज्ञानेन्द्रियाणि पञ्च 1 रजः सत्वतमोरूपाणि अहङ्कारबुद्धिमनांसि अन्तःकरणवृत्तित्रयम् । प्रकृतिर्गुणमाम्यरूपा । चित्तं पुरुषो जीवः । परमशिवगताः स्वतन्त्रता-नित्यता-नित्यतृप्तता - सर्वकर्तृता - सर्वज्ञताऽऽख्या धर्मा एव सङ्कुचिताः सन्तो जीवे क्रमात नियति-काल-राग-कलाऽविद्याशब्दवाच्या भवन्ति 1 माया जगत्परमशिवयोः भेदबुद्धिः । शुद्धविद्या तयोरभेदधीः । जगदिदंतया पश्यन् परमशिव ईश्वरः । तदन्तया पश्यन् स एव सदाशिवः । शक्तिः परमशिवस्य जगत्सिसृक्षा । तद्वान् स एव तत्त्वेषु प्रथमतत्त्वरूपः शिवः । इति षट्त्रिंशत्तत्त्वान्येव एतद्दर्शनप्रमेयजातम् । एतदात्मकं विश्वमेव परमशिवशरीरम् । प्रागुक्तनियत्यादितत्त्वपञ्चकारख्यापरपर्यायेण लीलाम्वीकृतेन कञ्चुकेन आवृतस्वरूप ईश्वर एव जीवः । तद्विनिर्मुक्तः परमशिवः । स्वस्वरूपावबोधः पुरुषार्थ' : ॥
1
मन्त्रोपासनम्
शब्दाः वर्णात्मका नित्याश्च । मन्त्राणामन्यादृशं सामर्थ्यम् । स्वगुरुपरम्परोपदेशैकगम्यधर्मरूपेण सम्प्रदायेन गुरुशास्त्रदेवतासु विश्वासेन च सर्वाः सिद्धयः ।
स्वतन्त्रादिना सड़कुच्य स्वीकृतेन आवृतस्वरूप: शिव एव मायया सजातक चुकितः स एव जीवः इत्यधिकः पाठो दृश्यते (अ) कोश.
1