________________
तदन्तोल्लासः पञ्चमः -- दण्डिनीक्रमः
मन्त्रसाधनम्
एवं नित्यक्रममाचरन् श्यामाक्रमोक्तेन पुरश्चरणप्रकारेण प्रत्यहं सहस्रसङ्ख्यया लक्षसङ्ख्याकं प्रकृते कलियुगत्वाच्चतुर्गुणितं जपं पुरश्चरणं कृत्वा तद्दशांशं नारिकेलोदकैः सन्तर्प्य, तद्दशांशं तापिञ्छकुसुमैः तिलैः चुळुकमितैः शतसङ्ख्याकैर्वा हरिद्राखण्डैर्वा तन्त्रान्तरोक्तैः त्रिमध्वक्तैः हेतुमिश्रैश्च जुहुयात् । इह पञ्चधोपचारात् प्राक् महाव्याहृत्यादिषु च आज्येनैव होम: । इतरेषु तापिञ्छादिना । एवं सिद्धमन्त्रः स्वतन्त्रोपास्तौ श्रीक्रमोक्तेन क्रमेण ' नैमित्तिकार्चनरतः सत्यां कामनायां पूर्वोक्तेनैव क्रमेण तत्तत्काम्यानुगुणं होमं कृत्वा सफलमनोरथ आज्ञासिद्धः सुखी विहरेत् । इति शिवम् ॥
इति श्रीभासुरानन्दनाथचरणारविन्दमिळिन्दायमानमानसेन उमानन्दनाथेन विरचिते कल्पसूत्रानुसारिणि नित्योत्सवे अभिनवे निबन्धे तदन्तोल्लासः पञ्चमः सम्पूर्णः ॥
1 नित्यनै-ब२, ब३, अ.
१८९