________________
उन्मनोल्लासः षष्ठः-परापद्धतिः
उपोद्धातः नत्वा श्रीभासुरानन्दनाथपादाम्बुजद्वयम् । गृणात्युमानन्दनाथ उन्मनोल्लासवैभवम् ॥ आराधनपदं यत्र परा श्रीहृदयात्मिका । पदे पदे सुखानि स्युः प्रभुचित्तविदो न किम् ॥ दीक्षाविधिरिहापेक्ष्य आरम्भोल्लास ईक्ष्यताम् । न तु सन्ध्योपास्तिरुक्ता सूत्रकारैरसूत्रणात् ॥ पञ्चमीमभिराध्याथ पराक्रमपरो भवेत् । एतस्मिन् मनवः सर्वे शक्तिबीजादिमाः स्मृताः ॥
काल्यकृत्यं आह्निकं च श्रीमान् साधकः कल्ये प्रबुद्धः शयन एव स्थितः श्रोत्राचमनभस्मधारणे विधाय, श्रीक्रमोक्तेन क्रमेण श्रीगुरोर्ध्यानं वक्ष्यमाणया मूलपूर्विकया सामान्यपादुकया उक्तसुमुखादिमुद्राप्रदर्शनपूर्वकं वन्दनं च विधाय, वक्ष्यमाणया रीत्या प्राणानायम्य ब्रह्मरन्ध्रसम्बन्धिनि सहस्रदलकमले सुखासीनाया वक्ष्यमाणध्यानोक्तमूर्त्याः शक्तिबीजामिन्नायाः पराऽम्बायाः चरणयुगळविगळदमृतरसविसरपरिप्लुतं ध्यात्वा आत्मानं, मूलं मनसा दशवारमावर्त्य, वहन्नाडीपार्श्वपदमुत्थाय, निर्वर्तितावश्यकः उक्तया भङ्गया विहितदन्तधावनादिनानश्च शुचिवासो वसानः विधृतपुण्डूः सर्वेण मूलेन त्रिराचम्य द्विः परिमृज्य सकृदुपस्पृश्य चक्षुषी नासिके श्रोत्रे असे नाभिं हृदयं शिरश्वावमृशेत् ॥