________________
१८८
नित्योत्सवः
विश्वाधीश्वरवल्लभे विजयसे या त्वं नियत्यात्मिके भूतानां पुरुषायुषावधिकरी पाकप्रदा कर्मणाम् । तां याचे भवतीं किमप्यवितथं योऽस्मद्विरोधी जनस्तस्यायुर्मम वाञ्छितावधि भवेन्मातस्तवैवाज्ञया ॥ ६ ॥ मातस्सम्यगुपासितुं जडमतिस्त्वां नाद्य शक्नोम्यहं
यद्यप्यञ्चितदेशिकाङ्घ्रिकमलानुक्रोशपात्रस्य मे । जन्तुः कञ्चन चिन्तयत्यकुशलं यस्तस्य तद्वैशसं
भूयादेवि विरोधिनो मम च ते श्रेयःपदासङ्गिनः ॥ ७ ॥ श्यामां तामरसारुणत्रिणयनां सोमार्धचूडां जग
त्त्राणव्यग्रहलामुदग्रमुसलामत्रस्तमुद्रावतीम् । ये त्वां रक्तकपालिनीं शिववरारोहे वराहाननां
भावे सन्दते कथं क्षणमपि प्राणन्ति तेषां द्विषः ॥ ८ ॥
इति निग्रहाष्टकम् ॥
बृन्दाराधनं, गुरुसंतोषणं, शक्तिवटुकपूजा च
#
अथ योगिनीवीरयुग्मसमुदायात्मकं बृन्दं गन्धादिभिः आराध्य, यथाविभवं श्रीगुरुं सन्तोष्य, समग्रयौवना लक्षणवती : मदनविवशाः तिस्रः शक्तीर्बटुकं चाहूयाभ्यज्य स्त्रपयित्वा, मध्ये वार्ताळीबुद्धयैकां क्रोधिनीस्तम्भिनीबुद्ध्या च द्वे पार्श्वयोरुपवेश्य, चण्डोच्चण्डधिया वटुकं चाग्रे समुपवेश्य द्वितारीनमः सम्पुटितैः तत्तन्नाममन्त्रैः गन्धादिभिः क्षीरादिभिश्च सर्वैः द्रव्यैः सन्तोष्य, मम श्रीवार्ताळीमन्त्रसिद्धिः भूयादिति शक्तीः प्रार्थयेत् । ताश्च प्रसीदन्त्वधिदेवता इति प्रतिब्रूयुः ॥
हविः प्रतिपत्तिः
अथ
श्रीक्रमोक्तक्रमेण हविः प्रतिपत्तिकर्मादिविशेषार्घ्यविसर्जनान्तं शेषं निर्वर्तयत् । हविःप्रतिपत्तौ मूलेन तत्त्वत्रयशोधनमेवेति विशेषः ॥
1 सकृद्यत्त्वत्पदा -भ, ब२, ब३, अ.