________________
१४३
यौवनोल्लासः तृतीयः-श्रीक्रमः नैमित्तिकातिक्रमणे सहस्रं प्रजपेत्तथेति ॥ इति ॥ इति पञ्चपर्वार्चनविधिः ॥
तन्त्रान्तरोक्तेषु युगमन्वादिषु विशेषदिवसेष्वपि श्रीदेव्यर्चनं अभ्युदयायैव । सूत्रकारेण काम्यहोमस्यैवोक्तत्वात् तत्पूजाऽनुक्तिरिति शिवम् ॥ इति यौवनोल्लासे नैमित्तिकप्रकरणम् ॥
यथामति मयाऽकारि स्वयं श्रीक्रमपद्धतिः । भ्रमं प्रमादस्खलितं क्षमयन्त्विह साधवः ॥ इति श्रीमद्भासुरानन्दनाथचरणारविन्दमिलिन्दायमानमानसेन उमानन्दनाथेन
विरचिते कल्पसूत्रानुसारिणि नित्योत्सवनिबन्धे
अभिनवे यौवनोल्लासः तृतीयः सम्पूर्णः