________________
प्रौढोल्लासः चतुर्थः-श्यामाक्रमः
उपोद्धातः नत्वा श्रीभासुरानन्दनाथपादाम्बुजद्वयम् । 'प्रधीरुमानन्दनाथः प्रौढोल्लासं तनोत्यमुम् ॥ यत्र श्रीमन्महाराज्ञीमन्त्रिण्याः क्रम ईरितः । प्रधानानुसृतिद्वारा न्याय्यं हि नृपसेवनम् ॥ त्रितार्या बालया चेह बालया वाऽऽदितोऽन्विताः । मन्त्राः क्रमजुषो दीक्षा त्वारम्भोल्लास ईरिता ॥
काल्यकृत्यं आह्निकं च श्रीमान् साधकः श्यामलां देवीं आरिराधयिषुः श्रीक्रमोक्तक्रमेण काल्यकृत्याह्निके निवर्तयेत् । अत्र विशेषः-श्रीगुरुपादुकायामादौ त्रितारीस्थाने बालायोगः । सर्वकारणभूतायाः संविदश्चिन्तनं मूलाधारादिद्वादशान्ताख्यललाटो_भागावधिकमेव । रश्मिस्रगननुस्मरणम् । तत्र तत्र यथोचितं सम्बुद्धयादीनामूहः। आदित्यमण्डले वक्ष्यमाणया भङ्गया सङ्गीतयोगिन्या भावनम् । मूलेन अर्घ्यदानम् । वक्ष्यमाणमृष्यादिन्यासत्रयं चेति । इदं चाह्नित स्वतन्त्रोपास्तौ पुरश्चरणकाले च, न तु श्रीक्रमाङ्गत्वेन सहानुष्ठाने ॥
यागमन्दिरप्रवेशः अथापराओं यागमन्दिरमागत्य द्वारस्थण्डिलं गोमयेनोपलिप्य यागगृहं च रङ्गवल्लीपुष्पमालावितानकादिभिश्चालङ्कृत्य द्वारस्य दक्षवामशाखयोः ऊर्ध्वभागे च क्रमेण