________________
१४२
. नित्योत्सवः दलेषु वाऽष्टौ दीपान् प्रज्वाल्य देव्यै मूलेन सप्रसूनं निवेदयेत् । शेषमभिहितवत् ।। इति कार्तिककृत्यम् ॥
मार्गशीर्षकृत्यम् अथ मार्गशीर्षपूर्णिमायां सावरणां श्रीदेवीं सुगन्धिभिः कुसुमैरभ्यर्च्य माषपिष्टापूपान् कर्पूरसुरभिलं नारिकेलोदकं च प्रागुक्तान्यतमया भङ्गया सर्वाभ्यो देवताभ्यो निवेदयेत् । अन्यदविशेषम् ॥ इति मार्गशीर्षकृत्यम् ॥
पौषकृत्यम् ततः पौष्यां प्राग्वदधिवासपूर्वकं शर्करया गुडेन वा साकं गव्यं दुग्धं उक्तेन केनचित्प्रकारेण निवेदयेत् । अन्यदविशेषम् ॥ इति पौषकृत्यम् ॥ .
माघकृत्यम् तदनु माध्यां प्राग्वदधिवासितैः शुक्लैस्तिलैः अलाभे रक्तकृष्णैर्वा शुद्धस्सकुसुमैरभ्यर्च्य शर्करादुग्धापूपान् निवेदयेत् । अत्रापूपाः गोधूमादिपिष्टप्रकृतिका इति सम्प्रदायः । इतरत् समानम् ॥ इति माघकृत्यम् ॥
फाल्गुनकृत्यम् अथ फाल्गुन्यां सौवर्णराजतपुष्पैः पङ्कजैः कल्हारैः आम्रकुसुमैः मधूकैश्च यथासम्भवं मिलितैः प्राग्वदधिवासितैः सावरणां श्रीदेवीं वरिवस्येत् ॥ इति फाल्गुनकृत्यम् ॥ ___अयमेव नैमित्तिकार्चनविधिः गणपतिश्यामावार्तालीनां सामान्यक्रमोक्तानां देवतानाम् । सर्वत्रामुकपौर्णिमायां अमुकेन द्रव्यविशेषेण अमुकदेवतां पूजयिष्ये इति सङ्कल्पः ॥
अत्राधिकमासापाते एकमासकृत्यस्य मासद्वय आवृत्तिः । क्षयमासप्रसक्तौ त्वेकस्मिन् मासे मासद्वयकृत्यमपि कार्य भवति । नैमित्तिकार्चनमुख्यगौणकालातिक्रमे मुलविद्यासहस्रजपः प्रायश्चित्तमानातं तन्त्रराजे