________________
यौवनोल्लासः तृतीयः — श्रीक्रमः
स्वप्नवाराहीमन्त्रस्य अग्निः ऋषिः । गायत्री छन्दः । स्वप्नवाराही देवता ।
तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् —
स्वप्ने शुभाशुभं भावि शासन्तीं भक्तकार्ययोः ।
दुःस्वप्नहारिणीं वन्दे वाराहीं स्वप्ननायिकाम् || ३२ ॥
तिरस्करिणीमन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । तिरस्करिणी देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् -
मुक्तकेशीं विवसनां सर्वाभरणभूषिताम् । स्वयोनिदर्शनान्मुह्यत्पशुवर्गो नमाम्यहम् ॥ ३३ ॥
1
वाराहीगुरुपादुकामन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । वाराहीगुरुपादुका देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् -
देशिकाङ्घ्रिलसन्मौलिं खगिनीं च कपालिनीम् । भावयामि घनच्छायां पञ्चमीगुरुपादुकाम् ॥ ३४ ॥
श्रीमहावाराहीमन्त्रस्य स्पष्टम् ॥ ३५ ॥
श्रीपूर्तिविद्यामन्त्रस्य दक्षिणामूर्तिः ऋषिः । पङ्क्तिश्छन्दः । श्रीपूर्तिविद्या देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ ३६ ॥
महापादुकामन्त्रस्य दक्षिणामूर्तिः ऋषिः । पङ्क्तिश्छन्दः । श्रीमहापा देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् -
१३५
सर्वविद्यामयीं सर्वशक्तिपीठस्वरूपिणीम् ।
कराग्रे हृदये मूले देशिकाङ्घ्रियुगत्रयम् ॥
दधतीं दीप्तभूषाढ्यां श्रीमहापादुकां नुमः ॥ ३७ ॥
इति रश्मिमालाया ऋप्यादयः ॥
इति जपप्रकरणं षष्ठं समाप्तम्