________________
नित्योत्सवः
नैमित्तिकाकरणम्
पर्वसु नैमित्तिकार्चनविधः उक्तेन क्रमेण नित्यक्रमनिरतः साधकः प्रतिमासं पञ्चपर्वसु नैमित्तिकमर्चनमाचरेत्--
नित्यार्चनरतैः सिद्धैः कार्य नैमित्तिकार्चनम् ॥ इति तन्त्रराजवचनात् । तच्च नित्यार्चनाधिकसाधनविशेषकरणकम् । पर्वाणि तु कृष्णाष्टमी कृष्णचतुर्दशी दर्शः पूर्णिमा सङ्क्रान्तिश्चेति कुलार्णवोक्तानि । तत्र कालस्य कर्तव्यतायाश्च निर्णयः । सङ्क्रान्तिव्यतिरिक्तपर्वार्चनं सूर्यास्तमयोत्तरं दशघटिकाऽऽत्मके रात्रिपूर्वभागे कार्यम् । सङ्क्रमणसपर्या तु तत्तत्सङ्क्रान्तिपुण्यकालोपलक्षितासु घटिकासु । तदुक्तम्
प्रागूज़ च दशैव मेषतुलयोः सिंहे वृषे वृश्चिके
कुम्भ षोडशपूर्वतोऽथ मिथुने मीने धनुःकन्ययोः । ऊर्ध्वाः षोडश कीर्तिताः प्रथमतस्त्रिंशत्तु कर्काटके
चत्वारिंशदथो परास्तु मकरे पुण्यप्रदा नाडिकाः ॥ इति ॥ नाडिकाः घटिकाः । अष्टमीचतुर्दशीदर्शपूर्णिमानां म्वस्वदिने पूजाकालव्याप्तौ न विवादः । दिनद्वये एकदेशव्याप्तौ यत्राधिका सा तिथिह्या । समव्याप्तौ परैव । तिथिवृद्धिहासवशेन चतुर्दशीदर्शयोः एकस्मिन्नेव दिने पूजाकालव्याप्तौ नैमित्तिकद्वयस्य तन्त्रेणानुष्ठानम् । तदा सङ्क्रान्तियोगे तु तत्र तम्यापि दिवासङ्क्रमणे सति नित्यार्चनस्य प्रासङ्गिकी सिद्धिः । यत्र चतुर्णो नैमित्तिकार्चनानां एकस्मिन्नेव काले सन्निपातः सम्भाव्यते तत्र तेषामप्येकतन्त्रतैव । यथा दमनसमर्पणम्य मुख्यकाले चैत्र्यां पूर्णिमायामसम्भवे तत्कृष्णचतुर्दशीदर्शादिज्येष्ठकृष्णचतुर्दशीदर्शान्तें गौणकाले । यथा च पवित्रारोपणम्य श्रावण्यामलाभे आ मिथुनसङ्क्रमणं आ च तुलासङ्क्रान्ति प्रोक्तासु तिथिषु आश्विनशुक्लाष्टमीनवमीचतुर्दशीपूर्णासु च तत्कृष्णचतुर्दशीदर्शयोश्च तादृशि विषये पूजाद्वयं त्रयं चतुष्टयं वा करिष्य इति सङ्कल्पयेदिति दिक् ॥