SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३४ - नित्योत्सव : घनस्तनभरालसां गळितचूळिकां श्यामलां करस्फुरितवल्लकीविमलशङ्खताटङ्किनीम् ॥ माणिक्यवीणामुपलालयन्तीं मदालसां मञ्जुळवाग्विलासाम् । माहेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां मनसा स्मरामि ॥ इति वा ॥ २६ ॥ वागीश्वरीमन्त्रस्य कण्व ऋषिः । विराट् छन्दः । वागीश्वरी देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् — अमलकमलसंस्था लेखिनीपुस्तकोद्यत्करयुगळसरोजा कुन्दमन्दारगौरा | 'वृतशशधरखण्डोल्लासिकोटीरचीटा भवतु भवभयानां भङ्गिनी भारती नः ॥ २७ ॥ नकुलीबागीश्वरीमन्त्रस्य कहोळक ऋषिः । गायत्री छन्दः । नकुलीवागीश्वरी देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् - नकुली वज्रदन्ताळी साध्यजिह्वाऽहिदंशिनी । भक्तवक्तृत्वजननी भावनीया सरस्वती ॥ २८ ॥ श्यामागुरुपादुकामन्त्रस्य मतङ्ग ऋषिः । पङ्क्तिश्छन्दः । श्यामागुरुपादुका देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् वन्दे गुर्वङ्घ्रिमकुटां श्यामलां शुकपाणिनीम् । समस्तसिद्धिजननीं श्यामलागुरुपादुकाम् ॥ २९ ॥ श्रीराजश्यामलामन्त्रस्य स्पष्टम् ॥ ३० ॥ लघुवाराहीमन्त्रस्य नारद ऋषिः । पङ्क्तिश्छन्दः । लघुवाराही देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् — महार्णवे निपतितामुद्धरन्तीं वसुंधराम् । महादंष्ट्रां महाकायां नमाम्युन्मत्त भैरवीम् ॥ ३१ ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy