________________
यौवनोल्लासः तृतीयः — श्रीक्रमः
१३३
अन्नपूर्णेश्वरीमन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । अन्नपूर्णेश्वरी देवता ।
तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् -
आदाय दक्षिणकरेण सुवर्णदवीं दुग्धान्नपूर्णमितरेण च रत्नपात्रम् । अन्नप्रदाननिरतां नवहेमवर्णी
अम्बां भजे कनकभूषणमाल्यशोभाम् ॥ २२ ॥
अश्वारूढामन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । अश्वारूढा देवता ।
तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् --
बद्ध्वा पाशेनाङ्कुशेन कृप्यमाणाश्वसाध्यकम् । नन्तीं वेत्रेण फालखक्पाणिमश्वासनां भजे ॥
ध्यानान्तरम् --
अश्वारूढा कराये नवकनकमयीं वेत्रयष्टिं दधाना दक्षेऽन्ये धारयन्ती स्फुरति धनुर्लतापाशहस्ता सुसाध्या ।
देवी नित्यप्रसन्ना शशिशकललसत्केशपाशा त्रिणेत्रा
दद्यादद्यानवद्यां श्रियमखिलसुखप्राप्तिहृद्यां श्रियै नः ॥ २३ ॥
श्रीविद्यागुरुपादुकामन्त्रस्य दक्षिणामूर्तिः ऋषिः । पङ्क्तिश्छन्दः । श्रीविद्या
गुरुपादुका देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् —
तेजोमयमहाविद्यां शेखराञ्चितमस्तकाम् ।
रक्तां चतुर्भुजां वन्दे श्रीविद्यागुरुपादुकाम् ॥ २४ ॥ श्रीललिताया
॥ २५ ॥
लघुश्यामामन्त्रस्य मतङ्ग ऋषिः । विराट् छन्दः । श्रीलघुश्यामाम्बा देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम्—–
स्मरेत् प्रथमपुष्पिर्णी रुधिरबिन्दुशोणाम्बरां गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलाम् ।