________________
१३२
नित्योत्सवः
श्रीदेवीभूषितोत्सङ्गं सान्द्रसिन्दूररोचिषम् ।
हकारादिमनोर्वाच्यं वन्दे कामेश्वरं हरम् ॥ १६ ॥
संपत्करीमन्त्रस्य कण्ठ ऋषिः । गायत्री छन्दः । संपत्सरस्वती देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् -
अनेककोटिमातङ्गतुरङ्गरथपत्तिभिः ।
सेवितामरुणाकारां वन्दे सम्पत्सरस्वतीम् ॥ १७ ॥
चण्डयोगेश्वरीमन्त्रस्य ईश्वर ऋषिः । नाना छन्दांसि । चण्डयोगेश्वरी देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम्—
सृष्टिस्थितिभ्यां संहृत्या नाख्यया भासया श्रिताम् । कूलकन्था (?) कपालाढ्यां चण्डयोगेश्वरीं भजे ॥ १८ ॥
परशंभुनाथमन्त्रस्य वामदेव ऋषिः । पङ्क्तिश्छन्दः । परशंभुनाथ देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् —
पूर्णाहन्तास्वरूपाय तस्मै परमशंभवे । आनन्दताण्डवोद्दण्डपण्डिताय नमो नमः ॥ १९ ॥
परामन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । परा सरस्वती देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् -
अकळङ्कशशाङ्काभा त्र्यक्षा चन्द्रकलावती ।
मुद्रापुस्तलसद्वाहा पातु मां परमा कला ॥ २० ॥
बालामन्त्रस्य दक्षिणामूर्तिः ऋषिः । गायत्री छन्दः । बाला त्रीपुरसुन्दरी देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम्
अरुणकिरणजालैरञ्चिताशावकाशा
विधृतजपवटीका पुस्तकाभीतिहस्ता ।
इतरकरवराढ्या फुल्लकल्हारसंस्था
निवसतु हृदि बाला नित्यकल्याणशीला ॥ २१ ॥