________________
११९
यौवनोल्लासः तृतीयः-श्रीक्रमः ३ स क ल ही शिखायै वषट् ॥ ३ क ए ई ल ह्रीं कवचाय हुम् ॥ ३ ह स क ह ल ही नेत्रत्रयाय वौषट् ॥ ३ सकल ही अस्त्राय फट् ॥
__भूर्भुवस्सुवरों इति दिग्बन्धः ॥ अथ ध्यानम् । तच्च पूर्वोक्तमेव ॥
श्रीषोडशाक्षर्यास्तु-दक्षिणामूर्तिः ऋषिः । करषडङ्गन्यासयोः तत्कूटषट्कमिति विशेषः ॥
ततः शक्त्युत्थापनमुद्रया स्वदेहे शून्यतां विभाव्य बिन्दुत्रयसपरार्धरूपां कामकलां विचिन्त्य तस्याः स्वात्मतया परिणामं श्रीगुरुमुखावगतं विभाव्य श्रीगुरुदेवतामन्त्रात्मनामैक्यं भावयेत् । अथ मूर्ध्नि शिरोमुद्रां न्यस्य ३ ऐं क्लीं ह्रीं त्रिपुरे भगवति स्वाहा इति द्वादशाक्षरी कुरुकुल्लाविद्यां ततो हृदयमुद्रया (हृदि हस्तं दत्वा) ३ ॐ इत्येकाक्षरं सेतुं, अथ कण्ठे न्यासमुद्रया ३ ह्रीं इत्येकाक्षरं महासेतुं, तदनु नाभौ पूर्वमुद्रयैव ३ ॐ अं मूलं ऐं अं . . . क्षं (५१) ॐ इति सप्तत्यक्षरं निर्वाणमन्त्रं च त्रिस्त्रिः जपेत् ॥
ऐं ह्रीं श्रीं क्लीं इति कामेश्वरीमन्त्रं स्वाधिष्ठाने त्रिः जपेत् ॥ 1३ ई इति कामकलामन्त्रं मूलाधारे त्रिः जपेत् ॥ 1३ समस्तप्रकटगुप्तगुप्ततरसम्प्रदायकुलोत्तीर्णनिगर्भरहस्यातिरहस्यपरा
पररहस्ययोगिनीभ्यो नमः । इति समष्टिमन्त्रम् ॥ ३ ई एक ल ह्रीं ह स क ह ल हीं स क ल हीं ॥ इति पञ्चदशाक्षर
मुत्कीलनं सप्तवारं जपेत् ॥ विद्युदक्षी परां विद्यां कालिकां देशभाषिणीम् । खड्गमुण्डविकाराख्यां व्याघ्रचर्मविभूषिताम् ॥ रक्तमाल्याम्बरधरां घोररूपां चतुर्भुजाम् । खड्गं शूलं कपालं च दधतीं तीक्ष्णनासिकाम् ।
सिद्ध्यर्थं चिन्तयेद्देवीं सर्वविद्यासु जीविनीम् ॥ 'एते अंशाः (श्री, अ१) कोशयोरेव दृश्यन्ते. 'हल-बर, ब३, अ.