________________
११८
नित्योत्सवः
काम्यकर्मप्रसक्तानां तावन्मानं भवेत् फलम् ।
निष्कामं भजतां देवमखिलाभीष्टसिद्धयः ॥ इति ॥ देवेत्युपलक्षणं देव्या अपि । काम्यकर्मविधिश्च दुस्साधश्चेत् कस्यचित्काम्यफललिप्सा, तेन तदा श्यामाक्रमोक्तं पुरश्चरणादिकं काम्यहोमद्रव्यं च अनुसन्धेयम् । आभिचारादौ कर्तव्ये तु सामान्यक्रमोक्तं मन्त्रारित्वादिकं च ॥
जपविधिः श्रीविद्याजपपूर्वाङ्गमन्त्राः । जपोपयुक्ता मुद्रास्तु उक्तपूर्वा एव । तत्रादौ श्रीदेव्यै उपचारमन्त्रेण पुप्पाञ्जलिं दत्वा पूर्ववत् प्राणानायम्य ऋष्यादि न्यसेत् । यथा
अस्य श्रीमहात्रिपुरसुन्दरीपञ्चदशाक्षरीमहामन्त्रस्य ३ आनन्दभैरवाय ऋषये नमः-शिरसि । ३ पङ्क्त्यै छन्दसे नमः---मुखे । ३ श्रीमहात्रिपुरसुन्दर्यै देवतायै नमः- हृदि । ३ ऐं बीजाय नमः-गुह्ये । ३ सौः शक्तये नमः-पादयोः । ३ क्लीं कीलकाय नमः-नाभौ । (उक्तबीजशक्तिकीलकानि नाभिगुह्यपादेषु प्रायशो न्यस्तव्यानीति, मूलविद्याखण्डत्रयेणापि न्यस्तव्यानीति च केषांचिदभिमतम्) । ३ श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धयर्थे जपे विनियोगः-करसम्पुटे ।
ऐं ह्रीं श्रीं मूलविद्यया सर्वाङ्गे त्रिः व्यापकम् ॥
३ क ए ई ल ही अङ्गुष्ठाभ्यां नमः ॥ ३ ह स क ह ल ह्रीं तर्जनीभ्यां स्वाहा ॥
३ स क ल ह्रीं मध्यमाभ्यां वषट् ॥ . ३ क ए ई ल ह्रीं अनामिकाभ्यां हुँ ॥
३ ह स क ह ल ह्रीं कनिष्ठिकाभ्यां वौषट् ॥
३ स क ल ह्रीं करतलकरपृष्ठाभ्यां फट् ॥ एवं हृदयादिन्यासः, यथा
ऐं ह्रीं श्रीं क ए ई ल ह्रीं हृदयाय नमः ॥
३ हस क ह ल ह्रीं शिरसे स्वाहा ॥
mm
m
m