________________
यौवनोल्लासः तृतीयः-श्रीक्रमः
११७ ऐं ह्रीं श्रीं ह् क्लीं सौः सर्वसिद्धिप्रदचक्रेश्वर्यै त्रिपुराम्बायै नमः । हृदि ॥ एताः अतिरहस्ययोगिन्यः सर्वसिद्धिप्रदे चक्रे समुद्रा इत्यादि प्राग्वत् चक्रसमर्पणं न्यसेत् ॥
सर्वानन्दमयचक्रन्यासः ऐं ह्रीं श्रीं मूलं सर्वानन्दमयचक्राय नमः--इति व्यापकं न्यस्य, ऐं ह्रीं श्रीं मूलं श्रीललितायै नमः । हृदयमध्ये ॥ ३ एषा परापररहस्ययोगिनी सर्वानन्दमये चक्रे समुद्रा ससिद्धिः
सायुधा सशक्तिः सवाहना सपरिवारा न्यस्ताऽस्तु ॥ ३ मूलं सर्वानन्दमयचक्रेश्वर्यै श्रीललितायै नमः इति हृदि न्यस्य
योनिमुद्रां प्रदर्य मूलं जप्त्वा पुनः कराङ्गन्यासं कुर्यात् ॥ इति नित्यार्णवोक्तश्रीचक्रन्यासः । इमौ षोढाचक्रन्यासौ श्रीषोडशाक्षर्या अपि साधारणौ ॥
इति न्यासप्रकरणं पञ्चमं समाप्तम् ॥
जपप्रकरणः अथ यौवनोल्लासे जपप्रकरणं षष्ठमारभ्यते । अत्र सूत्रकृतः पुरश्चरणादिकं न विधित्सितम् , काम्यकर्मण्येव तस्यावश्यकत्वात् । “मपञ्चकालाभेऽपि नित्यक्रमप्रत्यवमृष्टिः,” “पञ्चपर्वसु विशेषार्चा च" इत्येताभ्यां सूत्राभ्यां नित्यनैमित्तिकावेव क्रमावभिधाय “यदि काम्यमीप्सेत्” इति होमखण्डसूत्रगतेन यदिपदेन काम्यहोमकर्मणः कृताकृतत्वज्ञापनात् । युक्तं चैतत् । तथा हि
शुभं वाऽप्यशुभं वाऽपि काम्यं कर्म करोति यः । तस्यारित्वं व्रजेन्मन्त्रो न तस्मात्तत्परो भवेत् ॥