________________
यौवनोल्लास: तृतीयः-श्रीक्रमः
१०५
तदनु
स्वाधिष्ठानाख्यपद्मे रसदललसिते वेदवक्त्रां त्रिणेत्रां ___ हस्ताजैर्धारयन्तीं त्रिशिखगुणकपालाङ्कुशानात्तगर्वाम् । मेदोधातुप्रतिष्ठामलिमदमुदितां बन्धिनीमुख्ययुक्तां
पीतां दध्यादनेष्टामभिमतफलदां काकिनी भावयामः ॥ इति ध्यात्वा
ऐं ह्रीं श्रीं कां की क म ल व र यूं काकिन्यै नमः । ३ ब भ म य रं लं मां रक्ष रक्ष मेदआत्मानं नमः ॥ इति गुह्यस्थानगतषड्दलस्वाधिष्ठानसरसिजकर्णिकायां काकिनी न्यस्य, तद्दलेषु तदावरणशक्तीः प्राग्वत् .न्यसेत् । यथा---
ऐं ह्रीं श्रीं बं बन्धिन्यै नमः, भं भद्रकाल्यै, में महामायायै, यं यशस्विन्यै, रं रक्तायै, लं लम्बोष्ठयै नमः ॥ ततः
मूलाधारस्थपञ श्रुतिदललसित पञ्चवक्त्रां त्रिणेत्रां
धूम्राभामस्थिसंस्थां सृणिमपि कमलं पुस्तकं ज्ञानमुद्राम् । बिभ्राणां बाहुदण्डैः सुललितवरदापूर्वशक्त्यावृतां तां
___ मुद्दान्नासक्तचित्तां मधुमदमुदितां साकिनी भावयामः ॥ इति ध्यात्वा
ऐं ह्रीं श्रीं सां सी स म ल व र यूं साकिन्यै नमः । वं शं षं सं मां रक्ष रक्ष अस्थ्यात्मानं नमः ॥ इति पायूपस्थमध्यगतचतुर्दलमूलाधारकमलकर्णिकायां साकिनी न्यस्य, तद्दलेषु पूर्ववत् तदावृतिशक्तीः न्यसेत् । यथा
ऐं ह्रीं श्रीं वं वरदायै नमः, शं श्रियै, षं षण्डायै, सं सरस्वत्यै नमः ॥ अथ -
भ्रूमध्ये बिन्दुपट्टे दलयुगकलिते शुक्लवर्णी कराब्जैः बिभ्राणां ज्ञानमुद्रां डमरुकममलामक्षमालां कपालम् ।