SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १०६ नित्योत्सव : षडुक्त्रां मज्जसंस्थां त्रिणयनलसितां हंसवत्यादियुक्तां हारिद्रान्नैकसक्तां सकलसुखकरीं हाकिनीं भावयामः ॥ इति ध्यात्वा ऐं ह्रीं श्रीं ह्रां ह्रीं हम ल व र यूं हाकिन्यै नमः ३ हं क्षं मां रक्ष रक्ष मज्जात्मानं नमः ॥ इति भ्रूमध्यगतद्विदलाज्ञाकमलकर्णिकायां हाकिनीं न्यस्य तद्दक्षवामदलयोः क्रमेण— ऐं ह्रीं श्रीं हं हंसवत्यै नमः, क्षं क्षमावत्यै नमः ॥ इति तच्छक्तिद्वयं न्यसेत् । तदनु मुण्डव्योमस्थपद्मे दशशतदलके कर्णिकाचन्द्रसंस्थां रेतोनिष्ठां समस्तायुधकलितकरां सर्वतोवक्त्रपद्माम् । आदिक्षान्तार्णशक्तिप्रकरपरिवृतां सर्ववर्णो भवानीं सर्वान्नासक्तचित्तां परशिवरसिकां याकिनीं भावयामः ॥ इति ध्यात्वा ऐं ह्रीं श्रीं यांयीं य म ल व र यूं याकिन्यै नमः | ३ अं... (५१) मां रक्ष रक्ष शुक्रात्मानं नमः ॥ इति ब्रह्मरन्ध्रगतसहस्रदलसरसिजकर्णिकायां याकिनीं न्यस्य तद्दळेषु प्रतिविंशतिदलं `तदावरणशक्तीः अमृताद्याः क्षमावत्यन्ताः पूर्वोक्ताः प्राग्वत् न्यसेत् ॥ राशिन्यास: रक्तश्वेतहरित्पाण्डुचित्रकृष्णपिशङ्गकान् । कपिशबभ्रुकिम्मीरकृष्णधूम्रान् क्रमात् स्मरेत् ॥ राशीनिति शेषः । इति ध्यात्वा ऐं ह्रीं श्रीं अं आं इं ईं मेषाय नमः । दक्षपादे || ३ उं ऊं वृषभाय नमः । लिङ्गदक्षभागे ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy