________________
१०४
नित्योत्सवः
रक्तस्थां कालरात्रीप्रभृतिपरिवृतां स्निग्धभक्तैकसक्तां श्रीमद्वीरेन्द्रवन्द्यां अभिमतफलदां राकिणीं भावयामः ॥
इति ध्यात्वा
ऐं ह्रीं श्रीं रां री रमल वर यूं राकिण्यै नमः । ३ कं खं गं घं ङं चं छं जं झं ञं टं ठं मां रक्ष रक्ष असृगात्मानं नमः ॥
इति हृदयस्थितद्वादशदलानाहतनलिनकर्णिकायां राकिणीं न्यस्य तद्दलेषु प्राग्वत् तदावृतिशक्तीर्न्यसेत् । यथा—
अथ
ऐं ह्रीं श्रीं कं कालरात्र्यै नमः, खं खण्डितायै, गं गायत्र्यै, घं घण्टाकर्षण्यै, ङं ङार्णायै, चं चण्डायै, छं छायायै, जं जयायै, झं झङ्कारिण्यै, ञं ज्ञानरूपायै, टं टङ्कहस्तायै, ठं ठङ्कारिण्यै नमः ॥ इति ॥
दिक्पत्रे नाभिपद्मे त्रिवदनलसितां दंष्ट्रिणीं रक्तवर्णी शक्तिं दम्भोलिदण्डावभयमपि भुजैर्धारयन्तीं महोग्राम् । डामर्याद्यैः परीतां पशुजनभयदां मांसधात्वेकनिष्ठां गौडान्नासक्तचित्तां सकलसुखकरीं लाकिनीं भावयामः ॥
इति ध्यात्वा
ऐं ह्रीं श्रीं लां लीं ल म ल व र यूं लाकिन्यै नमः | ३ डं ढं णं तं थं दं धं नं पं फं मां रक्ष रक्ष मांसात्मानं नमः ॥
2
इति नाभिगतदशदलमणिपूरकसरोजकर्णिकायां लाकिनीं न्यस्य तद्दलेषु पूर्ववत् तत्परिवारशक्तीः न्यसेत् । यथा
ऐं ह्रीं श्रीं डं डामर्यै नमः, ढं ढङ्कारिण्यै, णं णार्णायै, तं तामस्यै, थं स्थाण्व्यै, दं दाक्षायण्यै, धं धात्र्यै, नं नार्यै, पं पार्वत्यै, फं फट्कारिण्यै
नमः ॥