________________
यौवनोल्लासः तृतीयः-श्रीक्रमः
अय॑स्थापनमुद्राः अधोमुखप्रसारितं वामदक्षकरतलयुगमधरोत्तरं विधायाङ्गुष्ठद्वयचालने मस्यः । लक्ष्यमभितः छोटिकां दत्वा दक्षमध्यमातर्जनीभ्यां 'अधिवामकरतलं त्रिस्ताडने अस्त्रम् । अधोमुखस्य दक्षवाममुष्टिद्वयस्य प्रसारितयोः तर्जन्योः स्वस्वभागमारभ्य क्रमेण लक्ष्यं परितः प्रादक्षिण्यवामावर्ताभ्यां परिभ्रमणे अव कुण्ठ नम् । अभिमुखमन्योन्यग्रथितानां दक्षवामकराङ्गुलीनां क्रमेण कनिष्ठानामे तर्जनीमध्यमे च संयोज्य अधोमुखीकरणे धेनुः । यो नि रुक्तैव । उत्तानस्य वामकरस्य विरळं आकुञ्चितैः अनामामध्यमातर्जन्यौः अधोमुखस्य दक्षस्य वक्रीकृतानि तानि संयोज्य कनिष्ठागुष्ठाग्राणां मिथः सम्बन्धे गा लि नी ॥
अर्चने मुद्राः विततोत्तान ऊर्ध्वाधोव्यापारितोऽञ्जलि: आवाह नी । तथाविधो न्युजाञ्जलिः संस्था प नी । उदगुष्ठयोः मुष्टयोरभिमुखयोगे संनि धा पनी । सैवाकनिष्ठामूलं अन्तःप्रविष्टाङ्गुष्ठमिथःस्पृष्टनखा सं नि रो धि नी । संनिधापन्येव तिरः प्रयोजिता सम्मुखी करणी । अव कु ण्ठ नी उक्तैव । उदगुलिनोः करतलयोः योजने वन्दनं प्रसिद्धम् । धेनु यो नी उक्ते एव । वामानामाङ्गुष्ठयोगे त त्त्व मुद्रा । दक्षाङ्गुष्ठतर्जनीयोगो ज्ञा न मुद्रा ॥
सङ्क्षोभिण्यादिमुद्राः उत्तानयोः करतलयोः प्रसारिततर्जनीकं संहतकनिष्ठानामामध्यमाग्राण्यन्योन्याभिमुख्येन संयोज्य स्वस्वकनिष्ठोपर्यङ्गुष्ठाग्रसम्बन्धे सर्व सङ्क्षो भिणी । सैव प्रसारितमध्यमाऽपि सर्व विद्रा वि णी । इयमेव मध्यमातर्जन्योराकुञ्चने सर्वा कर्षणी। परस्परप्रथिताङ्गुलिस्पृष्टनखाग्राङ्गुष्ठयोः मुष्टयोः योगे सर्व व शङ्करी । अधरोत्तरं तिर्यक्प्रसारिते वामदक्षिणकनिष्ठे मध्यमाभ्यां धृत्वा तयोरगे अंगुष्ठाभ्यां निपीड्य अनामातर्जन्यग्राणां पार्श्वतो मिथः संस्पर्श सर्वोन्मा दिनी । एषैव अनामयोराकुञ्चने तर्जन्योः किञ्चित् भुमत्वे च सर्वम हा कु शा। दक्षभुजमध्यसन्धिस्थापितवाम'अधोमुखाभ्यां वाम-श्री.
• संस्थापिनी-अ, अ१, ३ सर्वाकर्षिणी-अ, ब३.