SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ नित्योत्सवः ३ ॐ भूर्भुवः सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा । चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो महत इदं न मम ॥ इति चतुर्भिः मन्तैः महाव्याहृतिहोमं आज्येन कृत्वा, ऐं ह्रीं श्रीं ॐ इतः पूर्व प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भयामुदरेण शिश्ना यत् स्मृतं यत् कृतं यदुक्तं तत् सर्वं ब्रह्मार्पणं भवतु स्वाहा इति मन्त्रेण ब्रह्मार्पणाहुतिं विधाय, परब्रह्मण इदं न मम इत्युक्त्वा, परिस्तरणपरिधीनपसार्य, परिषेचनालङ्करणे कृत्वा, प्रागुक्तेन अमिं प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ॥ इति मन्त्रेणोपस्थाय चिदग्निं देवतां च आत्मन्युद्वासयामि नमः इत्युद्वास्य तद्भुतितिलकं धारयेत् त्र्यायुषमिति मन्त्रेणेति शिवम् ॥ इति होमप्रकरणं तृतीयं समाप्तम् मुद्राप्रकरणम् श्रीगुरुवन्दनमुद्राः विकसितकल्प उत्तानाञ्जलिः सुमुखम् । इदमेव मुष्टीकृतं सुवृत्तम् । ऊर्ध्वाध:स्थितयोः दक्षवामकरतलयोः अंगुलीनां मियो मणिबन्धसम्बन्धे चतुर श्रम् । अधरोत्तरस्य वामदक्षमुष्टियुगस्य स्वाभिमुख्येन योजने मुद्गरः । तिर्यमिळिताग्रयोः मध्यमयोः पश्चात् ऊर्ध्वाधःस्थिते वामदक्षानामिके तिरः प्रसारिते तर्जनीभ्यां निपीड्य वामकनिष्ठां दक्षिणया धृत्वा अङ्गुष्ठाग्रयोः मध्यमापुरोमध्यपर्वद्वयसम्बन्धे यो निः ॥ इति श्रीगुरुवन्दनमुद्राः ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy