________________
यौवनोल्लासः तृतीयः- श्रीक्रमः ३ हृदयदेव्यै स्वाहा । हृदयदेव्या इदं न मम ॥ इत्यादि ॥ ३ परप्रकाशानन्दनाथाय · स्वाहा । परप्रकाशानन्दनाथाय इदं
__न मम ॥ इत्यादि ॥ ३ अणिमासिद्धयै स्वाहा । अणिमासिद्धया इदं न मम ॥
इत्यादिरीत्येति ॥ प्रधानदेवताहोमे तु पञ्चदशनित्योत्तर कामेश्वर्यादित्रितयान्ते त्रिपुराम्बोत्तरं प्रधानहोमदशके तदन्ते तस्या एव महाचक्रेश्वरीत्वेन पुनोंमे चेत्येवं त्रयोदशसु होमेषु मूलमन्त्रान्ते-ललितायै स्वाहा ललिताया इदं न मम इति विवेकः, “न तत्र मन्त्रदेवताभेदः कार्यः” इति सूत्रेण नामान्तरनिषेधात् । सर्वत्र ज्वालामालिन्यादिषु स्वाहाऽन्तेषु मन्त्रेषु तु पुनः स्वाहाशब्दान्तरयोजनं कर्तव्यमेव
मन्त्रान्ते या वह्निजाया सा तु मन्त्रस्वरूपिणी ।
तदन्तेऽन्यां प्रयुञ्जीत सा होमाङ्गतया मता ॥ इति शक्तिसङ्गमतन्त्रवचनात् ॥
होमद्रव्याणि तु आज्यानपायसतिलतण्डुलतदुभयरक्तपुष्पसुगन्धिकुसुमफलाद्यन्यतमानि । अन्नादिषु त्रिमधुयोगः केवलाज्ययोगो वा । अन्नादितिलतण्डुलान्तं निप्कामानाम् । प्रसूनं फलं चैकैकम् । लघु चेत् द्विव्याद्यपि । संस्कारस्तु आज्याक्त एव । एवं क्रमान्तरेप्वपि विपश्चिद्भिः ऊहनीयमिति दिक् । अथ पूर्वोक्तप्रकारेण बलिं दत्वा
ऐं ह्रीं श्रीं ॐ भूरमये च पृथिव्यै च महते च स्वाहा । अग्नये पृथिव्यै
____ महत इदं न मम ॥ ३ ॐ भुवो वायवे चान्तरिक्षाय च महते च स्वाहा । वायवे
___अन्तरिक्षाय महत इदं न मम ॥ ३ ॐ सुवरादित्याय च दिवे च महते च स्वाहा । आदित्याय
दिवे महत इदं न मम ॥ 1 स्वाहाऽन्तमन्त्रे स्वाहाऽन्तरयोजनं नास्तीति प्राचीनानां लेखः अमूलत्वात् अनादर्तव्यःइत्यधिकः (भ, अ) पुस्तकयोः.