________________
नित्योत्सवः
कूर्परमामणिबन्धं पाणी परिवर्त्य स्वाभिमुखमन्योन्यस्पृष्टाग्रयोः मध्यमयोः पृष्ठतोऽधरोत्तरं तिरःप्रसारितानि दक्षवामानामाकनिष्ठाप्राणि तर्जनीभ्यां धृत्वा पुरोऽङ्गुष्ठयोरन्योन्यसम्बन्धे सर्व खेचरी । ऊर्ध्वाधस्तिरःप्रसृते वामदक्षकनिष्ठाये अनामाभ्यां धृत्वा अर्धचन्द्राकृतियोजितेषु तर्जन्यङ्गुष्ठेषु मिथः श्लिष्टाभ्यामृजुभ्यां मध्यमाभ्यां तर्जन्योः सम्बन्धे सर्व बी जम् । यो नि रुक्तैव । अस्यामेव ऋजूकृतयोः कनिष्ठयोः मध्यमयोरङ्गुष्ठयोश्च पृथमिथः संस्पर्शे सर्व त्रि ख ण्डा । उदग्राणां विरळानां वामकराङ्गुलीनां ईषदाकुञ्चने ग्रासः । मध्यमातर्जन्यङ्गुष्ठयोगे प्राण मुद्रा । मध्यमानामाऽङ्गुष्ठमेळने अपान स्य । कनिष्ठाऽनामाऽङ्गुष्ठसम्बन्धे व्या न स्य । तर्जन्यनामाऽङ्गुष्ठमिश्रणे उदा न स्य । सर्वाङ्गुलिसंश्लेषे स मा न स्य । वाममुष्टेरङ्गुष्ठानचुम्बितमूलपर्वणि तर्जन्यामीषदधोमुखप्रसृतायां नारा चः । व्यत्ययेन वामदक्षकरकनिष्ठाङ्गुष्ठाग्रयोः योगे अन्यासां वैरळ्येन प्रसारणे च चक्रम् ॥
न्यासे मुद्राः संहताभिः चतसृभिः अगुलीभिः मुखस्पर्शे मु खम् । सम्पुटीकृतयोः करयोः मिथोऽभिमुखप्रश्लेषे क र सम्पुटम् । किञ्चिदाकुञ्चिताङ्गुल्यग्रयोः स्वाभिमुखं करयोरन्योन्यसम्बन्धे अञ्ज लिः । तर्जनीमध्यमानामाऽौः हृदयस्पर्शे हृ द य म् । मध्यमाऽनामाऽप्रयोः ब्रह्मरन्ध्रसम्बन्धे शिरः । अङ्गुष्ठाग्रचूळीयोगे शि खा । व्यत्ययहस्तयोरधरोत्तरं वामदक्षकरयोः सर्वाङ्गुलीभिः अंससम्बन्धे क व च म् । तर्जनीमध्यमाऽनामाऽङ्गः नेत्रयुगमध्यस्पर्शे ने त्रम् । अस्त्रं उक्तचरम् । एताः षडङ्गन्यास एव । अङ्गुष्ठमिळितया अनामिकया तत्तदङ्गस्पर्शे न्या स मुद्रा । वामहस्तमुष्टिं बद्धा सरळया तर्जन्या अंसकर्णमभितो भ्रामणे सौभाग्य द ण्डि नी । सैव गर्भिताङ्गुष्ठवामपादतलं न्यस्ता रिपु जिह्वाग्र हा । अन्त्यमिदं मुद्रायुगळं श्रीषोडशाक्षरीविषयम् ॥
जपे मुद्राः मुख-करसम्पुट-षडङ्गमुद्राः प्रोक्तचर्य एव । परस्परमनभिमुखग्रथिताकुञ्चितानामामध्यमाकनिष्ठं करौ परिवर्त्य प्रसारिततर्जनीयुगाग्रसम्बन्धे शक्त्यु त्या पनी ।
'असंकीर्ण-श्री, अ१.