________________
नित्योत्सवः ऐं ह्रीं श्रीं पीतायै नमः, श्वेताय, अरुणायै, कृष्णायै, धूम्रायै, तीव्रायै, स्फुलिङ्गिन्यै, रुचिरायै, ज्वालिन्यै नमः ॥ इति पीठशक्तीः समज़े, पीठमध्य एव
ऐं ह्रीं श्रीं तं तमसे नमः, रं रजसे, सं सत्वाय, आं आत्मने, अं अन्तरात्मने, पं परमात्मने, ज्ञं ज्ञानात्मने नमः ॥ इत्युपर्युपरि पूजयेत् । ततः तत्र त्रिकोणे ऐं ह्रीं श्रीं ह्रीं वागीश्वरीवागीश्वराभ्यां नमः इति मन्त्रेण जनिष्यमाणस्य वह्नेः पितरौ वागीश्वरीवागीश्वरौ सम्पूज्य, तयोमिथुनीभावं भावयित्वा, अरणेः सूर्यकान्ताद्वा वह्निमुत्पाद्य द्विजगृहाद्वा आनीय मृत्पात्रे ताम्रपात्रे वा अमिं आनेय्यां नैर्ऋत्यां वा दिशि निधाय, तस्माक्रव्यादांशमेकमग्निशकलं नैर्ऋत्यां निरस्य मूलेन निरीक्षणप्रोक्षणे अस्त्रेण कुशैः ताडनमवकुण्ठनामृतीकरणे चेत्येतैः विशोध्य, ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहेति मूलाधारोद्गतं संविदमि ललाटनेत्रद्वारा निर्गमय्य तं बाह्यामियुक्तं वागीश्वरबीजस्य वागीश्वरीयोन्यां प्रवेशबुद्धया वह्निचक्रे पातयेत् । ततः कवचाय हुं इति मन्त्रेण इन्धनैः आच्छाद्य, - ऐं ह्रीं श्रीं अमिं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णमनलं समिद्धं विश्वतोमुखम् ॥ इत्युपस्थाय, ३ उत्तिष्ठ पुरुष हरितपिङ्गल लोहिताक्ष सर्वकर्माणि साधय मे देहि दापय स्वाहा इति वह्निमुत्थाप्य, ३ चित्पिङ्गळ हन हन दह दह पच पच सर्वज्ञ आज्ञापय स्वाहा इति प्रज्वाल्य, वागीश्वरीगर्ने धृतं ध्यात्वा, ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं नमः अस्य होमामेः पुंसवनकर्म कल्पयामि नमः । तथा अस्य होमानेः सीमन्तकर्म, जातकर्म, श्रीललिताग्निरिति नाम्ना नामकरणकर्म कल्पयामि नमः । एवं तत्तत्क्रमेषु वहेः तत्तद्देवतानाम योज्यम् । अस्य होमामेरितिपदम्य एतावत्पर्यन्तमनुवृत्तिः, इतः परं ललिताऽमेरिति । ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं नमः श्रीललिताऽमेः अन्नप्राशनकर्म कल्पयामि नमः, चौळकर्म, उपनयनकर्म, गोदानकर्म, विवाहकर्म कल्पयामि नमः । इति तत्तत्कर्माणि भावनया विदध्यात् । ततः सामान्यजलेन परिषेचनम् , प्रागौरुदगप्रैश्च कुशैः परिस्तरणम् , त्रिभिः परिधिभिः प्राग्वजै परिधानं च कृत्वा,