________________
यौवनोल्लासः तृतीयः-श्रीक्रमः
श्रीचक्रमहिमा श्रीचक्राभिषेकोदकेन शिरःप्रोक्षणं पानं च ब्रह्माण्डोदरगतगङ्गाऽऽदितीर्थसंहस्रस्नानकोटिफलदम् । श्रीचक्रदर्शिनस्तु
सम्यक् शतक्रतून् कृत्वा यत्फलं समवाप्नुयात् ।
तत्फलं लभते कृत्वा भक्त्या श्रीचक्रदर्शनम् ॥ इति वचनादुक्तं फलं भवति । इत्यलं विस्तरेणेति शिवम् ।
सपर्याप्रकरणं द्वितीयं समाप्तम्
होमप्रकरणम् तत्र पूजामण्टपस्य ईशानभागे चतुरश्रकुण्डं अथवा हस्तायाममङ्गुष्ठोन्नतं स्थण्डिलं कृत्वा, सामान्याोदकेन प्रोक्ष्य, उदक्संस्थाः प्राचीस्तिस्रो रेखाः तदुपरि प्राक्संस्था उदीचीश्च लिखित्वा तासु रेखासु क्रमेण
ऐं ह्रीं श्रीं ऐं क्लीं सौः ब्रह्मणे नमः, यमाय, सोमाय, रुद्राय, विष्णवे, इन्द्राय नमः ॥ इति गन्धाक्षतपुष्पैरभ्यर्च्य
ऐं ह्रीं श्रीं सहस्रार्चिषे हृदयाय नमः, स्वस्तिपूर्णाय शिरसे स्वाहा, उत्तिष्ठपुरुषाय शिखायै वषट् , धूमव्यापिने कवचाय हुम् , सप्तजिहाय
नेत्रत्रयाय वौषट् , धनुर्धराय अस्त्राय फट् ॥ इति स्वाङ्गेषु षडङ्गं न्यसेत् । तेनैव षडङ्गेन अग्नीशासुरवायव्येषु मध्ये दिक्षु च कुण्डमभ्यर्च्य तत्र अष्टकोणषट्कोणत्रिकोणात्मकमग्निचक्रं प्रवेशरीत्या विलिख्य त्रिकोणे दिगष्टकं विभाव्य तत्र स्वाग्रादिप्रादक्षिण्येन दिक्षु मध्ये च क्रमात्