________________
यौवनोल्लासः तृतीयः -- श्रीक्रमः
त्रिणयनमरुणजटाबद्धमौळिं सशुक्लांशुकमरुणमनेकाकल्पमम्भोजसंस्थम् । अभिमतवरशक्तिं स्वस्तिकाभीतिहस्तं
इति ध्यायेत् ॥
नमत कनकमालालङ्कृतांसं कृशानुम् ॥
शारदातिलके
वैश्वानरं स्थितं ध्यायेत् समिद्धोमेषु देशिकः । शयानमाज्यहोमेषु निषण्णं शेषवस्तुषु ॥
इति ध्यानविशेष उक्तः । अथाष्टकोणे स्वाग्रादिप्रादक्षिण्येन
ऐं ह्रीं श्रीं जातवेदसे नमः, सप्तजिह्वाय, हव्यवाहनाय, अश्वोदराय, वैश्वानराय, कौमारतेजसे, विश्वमुखाय, देवमुखाय नमः ॥
इति षट्कोणे च पूर्ववत् षडङ्गं अभिपूज्य, त्रिकोणे – ॐ वैश्वानर जातवेद · इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा इति मन्त्रेण—अग्निमर्चयेत् । अथाज्यं मूलेन सप्तवारं अभिमन्त्रणेन संशोध्य पुरतो दर्भेषु निधाय स्रुवं च मूलेन प्रक्षाळ्य तदुत्तरतो निवेश्य अग्निं पुष्पाक्षतैः अलङ्कृत्य स्रुवेण आज्यमादाय,
ऐं ह्रीं श्रीं हिरण्यायै नमः स्वाहा । हिरण्याया इदं न मम ॥ कनकायै, रक्तायै, कृष्णायै, सुप्रभायै, अतिरक्तायै, बहुरूपायै नमः स्वाहा । बहुरूपाया इदं न मम ॥
८७
इति अग्नेः सप्तजिह्वासु एकैकामाज्याहुतिं कुर्यात् नमोऽन्ताम् । पादुकाऽन्तानिति सूत्रं तु प्रकरणान्तरमन्त्रान्तिमनम: पदापोहकं न तु वह्निजिह्वामन्त्रनमसः, अन्यत्र विनियोगादर्शनात् । जिह्वास्थानानि तु—
रुद्रेन्द्रवह्निमांसादवरुणानिलदिग्गताः ।
हिरण्याद्याः क्रमान्मध्ये बहुरूपा व्यवस्थिता ॥ इति ॥ बहुरूपाऽऽख्यजिह्वायां होमः सर्वार्थसाधकः । इतरासु हुनेत् क्रूरकर्मस्वभिमतेषु च ॥ इति कादिमते ॥