________________
नित्योत्सवः
कल्पयेत् । तदिदमष्टदळमिति व्यवह्रियते । असन्धित्वं नाम केसराभावत्त्वम्, श्रीचक्रराजे केसरनिषेधदर्शनात् । अथ तदभितः पुनः कर्णिकावृत्तं निष्पाद्याऽसन्धीनि पत्राणि षोडश निर्मिमीत । तदिदं षोडशदळं सञ्चक्षते । अथ तद्बहिर्मर्यादावृत्तत्रयं परिकल्प्य तत्परितः चतुरश्ररेखात्रयेण चतुर्द्वारं भूपुरं समुद्भावयेत् ॥ इति श्रीचक्रलेखनप्रकारः ॥
८२
श्रीचक्रप्रस्तारभेदाः
एतत्प्रतिष्ठापनमन्त्रः प्रागुक्त एव । सुवर्णादिनिर्मितस्य यन्त्रस्य तु द्वौ प्रस्तारौ - भौमो, मैरवश्चेति । तत्र पलद्वयपरिमाणे चतुरङ्गुलविस्तृतपट्टे ऊर्ध्वरेखाऽऽत्मको बिन्द्वादिभूपुरान्तरचनाक्रमो भूप्रस्तारः । मैरवप्रस्तारस्त्रिविधः । तत्र भूपुरमारभ्य चक्रत्रिकत्रिकं सृष्टिस्थितिसंहारपदैः व्यपदिश्यते । तेषु सृष्टिचक्रात् स्थितिचक्रमुन्नतम् । ततोऽपि संहारचक्रमुच्छ्रितम् । इत्येकः पक्षः । भूपुरात् पद्मद्वयमुन्नतम् । तस्मात् चतुर्दशारादिषट्कं उदग्रमिति द्वितीयः । भूपुरादिबिन्द्वन्तानि नवापि चक्राणि पूर्वपूर्वस्मादुत्तरोत्तरं उन्नतानीति तृतीयः । अत्र—
1
चतुरश्रं समारभ्य नवचक्राण्यनुक्रमात् । उन्नतोन्नतमामध्याच्चक्रं स्यान्निधनेधनम् ॥ इति ॥
चरमपक्षप्रतिपादके तन्त्रराजवचनगते “ निधनेधनं " इति पदे " उरसिलोम " इत्यादिवत् व्यधिकरणबहुव्रीहिः । चरमे वयसि धनप्राप्तिरित्यर्थः । सम्पदनुभवदशायामेव निधनमाप्नोति न तु तद्धूासकाले इति यावत् । प्राञ्चस्तु धनलाभोत्तरं निधनं भवतीति सप्तमीद्वितीययोः व्यत्ययं विधाय निन्दापरतया व्याचक्षते । तत्र मूलं त एव जानत इति दिक् ॥
श्रीचक्रप्रतिष्ठापनविधिः
दीक्षाप्रकरणोक्ते शुभे दिवसे कृताह्निकः साधको गणपतिमाराध्य ब्राह्मणैः स्वस्ति वाचयित्वा आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य अमुकगोत्रोऽमुकशर्मवर्मादिरहं महात्रिपुरसुन्दरीमाराधयिष्यन् श्रीचक्रराजप्रतिष्ठापनं करिष्य इति सङ्कल्प्य