________________
यौवनोल्लासः तृतीयः-श्रीक्रमः दुग्धदधिघृतशकृन्मूत्रात्मकं पञ्चगव्यमानीय सम्मिश्य हौं इति मन्त्रेण अष्टोत्तरशतवारानभिमन्त्र्य तत्र प्रणवेन यन्त्रं निक्षिप्य तत उद्धृत्य पात्रान्तरे निधाय, मिश्रितेन गोदुग्धदधिघृतमधुशर्कराऽऽत्मकेन पञ्चामृतेन संस्खाप्य धूपयेत् । अथ प्रत्येकं दुग्धादिभिः क्रमेण अन्तरान्तरा धूपनपूर्वकं सपयित्वा पुनर्मिश्रितैश्च तैः स्नपयेत् । ततोऽष्टासु दिक्षु शालितण्डुलपुञ्जोपरि निहितैः नूतनवसनवेष्टितैः गन्धपुष्पार्चितैः कुङ्कुमरोचनाचन्दनकस्तूरीसुरभिळशीतळसलिलपूर्णैः कुशाग्रेण स्पृष्ट्वा मूलेनाष्टोत्तरशतवारानभिमन्त्रितैः सौवर्णादिमार्तिकान्तान्यतमैरष्टभिः कलशैरभिषिञ्चेत् । इह सर्वमपि पञ्चगव्यादिकं स्नानं मूलमन्त्रकरणकमेव । अथ यन्त्रं धौतेन वाससा परिमृज्य पीठे निधाय कुशाग्रैः स्पृशन्—ऐं ह्रीं श्रीं ॐ यन्त्रराजाय विद्महे महायन्त्राय धीमहि । तन्नो यन्त्रः प्रचोदयात् ॥ इति—यन्त्रगायत्री अष्टोत्तरशतवारानावर्त्य आत्मनो भूतशुद्धयादिमातृकान्यासान्तं कृत्वा यन्त्रं करेण संस्पृश्य प्राणप्रतिष्ठां कुर्यात् । यथा
अस्य श्रीयन्त्रराजप्राणप्रतिष्ठामहामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः । ऋग्यजुस्सामाथर्वाणि छन्दांसि । चैतन्यं देवता । आं बीजम् । ह्रीं शक्तिः । क्रों कीलकम् । मम श्रीचक्रप्राणप्रतिष्ठायै जपे विनियोगः ॥ ऐं ह्रीं श्रीं अं कं खं गं घं डं पृथिव्यप्तेजोवाय्वाकाशात्मने आं अंगुष्ठाभ्यां
नमः ॥ ३ इंचं छं जं झं जं शब्दस्पर्शरूपरसगन्धात्मने ई तर्जनीभ्यां
नमः ॥ ३ उंटं ठं डं ढं णं श्रोत्रत्वक्चक्षुर्जिह्वाघाणात्मने ऊं मध्यमाभ्यां
नमः ॥ ३ एं तं थं दं धं नं वाक्पाणिपादपायूपस्थात्मने ऐं अनामिकाभ्यां
नमः ॥ ३ ॐ पं फं बं में मं वचनादानविहरणविसर्गानन्दात्मने औं
कनिष्ठिकाभ्यां नमः ॥ ३ अं यं रं लं वं शं षं सं हं ळं क्षं मनोबुद्धयहङ्कारचित्तान्तः
करणात्मने अः करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादिन्यासः ॥