________________
यौवनोल्लासः तृतीयः-श्रीक्रमः प्रथमं ईशानाद्यामेयान्त-तदादिवारुण्यन्त-तदादीशानान्तां रेखामभिलिख्य शक्तिं निष्पादयेत् । इदं मध्यत्रिकोणं भवति । यन्मध्यं हि बिन्दुस्थानमामनन्ति । अथास्य मध्यतः पावरेखाद्वयनिर्भेदपूर्वकं प्राग्वच्छक्त्यन्तरं कल्पयेत् । अत्र सन्धिद्वयं जायते । ततो द्वितीयशक्तिमध्यतः तत्पावरेखाद्वयं निर्भिद्य च तां प्रथमशक्त्यग्रसंलग्नां तिर्यग्रेखामालिख्य तदनाकृष्टाभ्यां पक्षरेखाभ्यां सन्धिद्वयभेदचणं शिवत्रिकोणं कुर्यात् । एतावता अष्टकोणं सम्पद्यते । एतदेव मध्यत्रिकोणेन सह नवयोनिचक्रमिति कीर्त्यते । इह सन्धयः षट् मर्मणी द्वे च सिध्यन्ति । अथ प्राची तिर्यग्रेखामुभयतोऽप्यभिवर्ध्य तदनाकृष्टाभ्यां प्रथमवह्निपक्षकोणाग्रसंलग्माभ्यां पावरेखाभ्यां शक्तिं जनयेत् । एवं प्रतीची तिर्यग्रेखामुभयतोऽप्यभिवर्ध्य तदनाकृष्टाभ्यां प्रथमशक्तिपक्षकोणाग्रस्पृष्टाभ्यां पावरेखाभ्यां शिवं साधयेत् । ततो मध्यत्रिकोणपार्श्वरेखे ऐशान्यामानेय्यां चाभिवर्ध्य तदप्रयोः प्रथमलिखितवयग्रे च संसक्तां तिर्यग्रेखामालिखेत् । एवं प्रथमलिखितवहेरपि पावरेखे अभिवर्ध्य तदप्रयोः द्वितीयशक्त्यग्रे च संसक्तां तिर्यग्रेखां विलिखेत् । तदिदमन्तर्दशारं भवति । अत्र मर्माणि षट् सन्धयो द्वादश च निप्पद्यन्ते । अथ विद्यमानासु पञ्चसु तिर्यग्रेखासु प्रथमां चरमां च उभयतोऽप्यभिवर्ध्य तत्तदनाकृष्टाभिः पाश्वरेखाभिः तृतीयशक्तिपक्षकोणशिखावजे इतरकोणाष्टकारस्पर्शिनौ शक्तिशिवौ समुत्पादयेत् । ततः प्रथमवर्धिता मध्यशक्तिप्रथमवह्निपावरेखास्तत्तद्विदिक्षु संवर्ध्य तत्तदग्राकृष्टे अन्तर्दशारीयप्राक्प्रत्यक्कोणशिखासम्पृक्ते रेखे समालिग्वेत् । तदेतद्वहिर्दशारं भण्यते । इह मर्माणि दश सन्धयोऽष्टादश चोन्मीलन्ति । अथ सप्तसु तिर्यग्रेखासु षष्ठद्वितीये पूर्वसंवर्धित एव रेखे उभयतः संवर्ध्य तत्तदनाकृष्टाभिः बहिर्दशारस्य प्राक्प्रत्यक्त्रिकोणशिखरसंसर्गवर्जमितरकोणाष्टकशिखरसम्पृक्ताभिः पावरेखाभिः शक्तिं शिवं च समुन्मीलयेत् । ततश्चतुर्थशक्तिपावरेखे सर्वप्राचीनां तिर्यग्रेखां चोभयतोऽप्यभिवर्ध्य मेळयेत् । एवं तृतीयवह्निपार्श्वरेखे सर्वप्रतीच्यां तिर्यग्रेखां चोभयतम्संवर्ध्य मेलयेत् । ततः प्रथमशक्तिप्रथमशिवयोः पार्श्वरेखे द्वे तत्तद्विदिक्षु समभिवर्ध्य तत्तदग्रतश्चतुर्थशक्तितृतीयशिवशिखरचुम्बितिर्यग्रेखायुगळमालिवेत् । तदिदं चतुर्दशारं भवति । अत्र मर्माणि अष्टादश, सन्धयः चतुर्विंशतिः, शक्तयः पञ्च, वहयश्चत्वारः, पार्श्वयोः डमरवोऽष्टौ, त्रिकोणानि च संहत्य त्रिचत्वारिंशत् सम्पद्यन्ते । अथास्य परितः कर्णिकावृत्तं विलिख्य तत्संसक्तान्यसन्धीनि दळान्यष्टौ
57