________________
नित्योत्सवः निवर्त्यः ।) अष्टाराद्यावृतित्रयसपर्येति द्वितीयः । आयुधार्चनसहितकामेश्वर्यादिचतुष्टयाहणं तृतीय इति । पक्षान्तराणि च
अशक्तः कारयेत् पूजां दद्याद्वार्चनसाधनम् ।
दानाशक्तः सपर्याऽन्तं पश्येत्तत्परमानसः ॥ इति ॥ अनापदि तु कृतान्येतान्यनिष्टापादकानि ॥
क्रत्वर्थनियमः कृष्णाष्टमीतञ्चतुर्दश्यमापूर्णिमासङ्क्रान्तिसंज्ञेषु पर्वसु पञ्चसु सविशेषैः साधनैः आराधयेत् । तत्प्रकारस्तु नैमित्तिकप्रकरणे वक्ष्यते । नित्यनैमित्तिकक्रमौ च शिष्यसुतादिभिरपि कारयितुं शक्यते ॥ ___श्रीललितोपासको नेक्षुखण्डं भक्षयेत् । न दिवा स्मरेद्वार्तालीम् । न जुगुप्सेत सिद्धद्रव्याणि । न कुर्यात् स्त्रीषु निष्ठुरताम् । वीरस्त्रियं न गच्छेत् । न तं हन्यात् । न तद्रव्यमपहरेत् । नात्मेच्छया मपञ्चकमुररीकुर्यात् । कुलभ्रष्टैः सह नासीत । न बहु प्रलपेत् । योषितं सम्भाषमाणामप्रतिसम्भाषमाणो न गच्छेत् । कुलपुस्तकानि गोपायेत् ॥ एते क्रत्वर्थनियमाः अकरणे क्रतुवैगुण्यापादकाः साधकेन अवश्यमनुष्ठेयाः । अन्यांश्च दीक्षाक्रमोक्तान् सामयिकानामाचारान् अनुतिष्ठेत् । अनिशमात्मानं कामकळाऽऽत्मकं श्रीदेवीरूपं भावयेत् । एवं वर्तमानस्य कुलनिष्ठस्य सर्वतः कृतकृत्यता। शरीरविमोके च श्वपचगृहकाश्योर्नान्तरम् । स एव जीवन्मुक्तः सुखी विहरेदिति ॥
__श्रीचक्रलेखनोपायः अथ प्राक्सूचितः श्रीचक्रलेखनप्रकारः सुबोधतमो लिख्यते ॥ .अत्रेयं परिभाषा-ईशानाद्यामेय्यन्ता वायव्यादिनैर्ऋत्यन्ता वा रेखा तिर्यग्रेखेत्युच्यते। तस्या एवारद्वयादाकृष्टे प्रतीच्यां प्राच्यां वा मेळिते च पार्श्व रेखे इत्युच्यते । रेखोपरि रेखाऽन्तरस्यारोहे तयोर्योगस्थानं सन्धिः । ईदृशः रेखात्रययोगो मर्म । साधको यदाशाऽभिमुखः सैव प्राची । तदितरा प्रतीची । प्रत्यगग्रं त्रिकोणं शक्तिः । प्रागग्रं तु शिवो वह्निश्चेत्युच्यते इति ॥