________________
प्रथमः खण्डः --- दीक्षाविधिः
७५
वर्णः स आदिः यस्मिन् ईदृशम् । इदं नामविशेषणम् । यथा शिरस्स्पर्शे तत्र मातृकावर्ण अकारः स आदिर्यस्य अमृतानन्दनाथ इति । एवमेव सर्वत्र योज्यम् । द्वयक्षरं वेत्यादिः स्पष्टार्थः । आनन्द नाथ शब्दान्तं स्पष्टम् । तस्य शिष्यस्य नाम दिशेत् स्थापयेत् ॥ ४० ॥
गुरुपादुकामन्त्रदानम्
विस्मृतं पुनराह -
बालोपदिष्टेः पूर्वमात्मनः पादुकां षट्तारयुक्तां
दद्यात् ॥ ४१ ॥
द्वितीयशकलग्रासानन्तरं बालोपदिष्टेः पूर्वं आत्मनः पादुकां आत्मनः गुरोः दीक्षाकाले दत्तं यन्नाम तद्घटितपादुकाऽन्तं मन्त्रं षट्तारयुक्तं तस्मै उपदिशेत् । षट् ताराश्च कुलार्णवे -
वाग्भवं च परा श्रीश्च काळीबीजं ततः प्रिये ।
भुवनेशी मन्मथं च षट् ताराश्च प्रकीर्तिताः ॥ इति ॥
अमुकानन्दनाथश्रीपादुकां पूजयामीति ॥
66
""
एतेन निबन्धस्थपादुकामन्त्रः सूत्रानवलोकनकल्पितः परास्तः ।। यद्यप्यत्र पाठक्रमेण अत्रैवोपदेशः प्राप्तः, तथाऽपि “ आश्विनो दशमो गृह्यते इतिवत् श्रौतक्रमेण तस्य बाधो युक्तः ॥ ४१ ॥
आचारानुशासनादि
आचाराननुशिष्य, हार्दचैतन्यमामृश्य, विद्यात्रयेण तदङ्गं त्रिः परिमृज्य परिरभ्य मूर्धन्यवत्राय स्वात्मरूपं कुर्यात् ॥ ४२ ॥
आचारान् दशमखण्डे वक्ष्यमाणान् अनु शिष्य शिक्षयित्वा हार्द हृदयाकाशसंबन्धि चैतन्यं, तमिति शेषः, शिष्यं आ मृश्य ध्यात्वा, स्वहृदयस्थ -