________________
७६
परशुरामकल्पसूत्रम्
चैतन्याभिन्नं शिष्यं भावयित्वेत्यर्थः । विद्या त्र येण श्री श्यामा वार्ताळीविद्याभिः । विद्यात्रयं एकदा पठित्वा परिमार्जनं प्रथमं ततो द्विः तूष्णीं, त्रिः प्रोक्षति इतिवत्, न तु त्रिभिस्त्रिवारम् । तथा सति तिसृभिर्विद्याभिरित्येव वदेत् । विद्यात्रयेणेतिकरणे एकत्ववैशिष्ट्यं प्रतीयते । तस्मान्न तथा । परिमार्जनं नाम स्वहस्तेन शिष्यस्य सर्वशरीरस्पर्शः । परिरभ्य आलिङ्गय, मूर्धन्य व त्राय स्वात्म रूपं कुर्यात्, स्वस्य यथा आत्मा मोक्षप्रतिबन्धकपौरुषमलरहितः तथा तं कुर्यात् ॥ ४२ ॥ शिष्यस्य अशेषमन्त्राधिकारित्वम्
सद्गुरुरित्यारभ्य एतदन्तं गुरुकर्तृकं कर्म, इतः परं शिष्यकर्तृकक्रिया भवतिशिष्योऽपि पूर्णतां भावयित्वा कृतार्थस्तं गुरुं यथाशक्ति विचैरुपचर्य विदितवेदितव्योऽशेषमत्राधिकारी भवेदिति शिवम् ॥ ४३ ॥
इति श्रीरेणुकागर्भसंभूत-दुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय - जामदग्न्यमहादेवप्रधानशिष्य- महाकौळाचार्य - श्रीमत्परशुरामकृतौ कल्पसूत्रे दीक्षाविधिर्नाम प्रथमः खण्डः
पूर्णता पूर्वमेव व्याख्याता । अत एव कृतो ऽर्थो मोक्षसाधनं येन स तादृशः । तं इति कालवाची, तं कालं, अस्मिन्नेव काल इत्यर्थः, गुरुविशेषणत्वे वैयर्थ्यात् । यद्वा -- “गुरोर्गुरौ समीपस्थे प्रगुरोरेव पूजनम्" इति वचनेन कदाचित् सपर्याया अन्ययोगप्राप्तौ तन्मा भूत् इति ज्ञापयितुं तमिति । यथाशक्ति वि तैः "लक्षं लक्षपतिर्दद्याद्दरिद्रस्तु वराटिकाम्" इति रीत्या उपचर्य सन्तोष्य । विदितं ज्ञातं वेदितव्यं ज्ञातुं योग्यं येन सः सर्वज्ञः इत्यर्थः । अशेष मन्त्राणां सौरवैष्णवादिसप्तकोटिमन्त्रेषु अधिकारी भवेत् इति । एतेन एतदुपदेशेन सर्वमन्त्रोपदेशो जातः, पुस्तकादिवाचननिषेधो नास्तीत्यर्थः । तदुक्तं तन्त्रान्तरे
यस्य नो पश्चिमं जन्म 'तुष्टो येन च सद्गुरुः । तेनैव लभ्यते विद्या 'साक्षाच्छ्रीषोडशाक्षरी ॥
-
1. यदि वा शंकरः स्वयम् अ.
2 श्रीमत्पञ्चदशाक्षरी -अ.