________________
द्वितीयः खण्डः-गणनायकपद्धतिः
अत्र सर्व महामन्त्राः बीजान्तर्वृक्षगात्रवत् ।
संस्थितास्तु महेशानि तस्माच्छ्रेष्ठतरा भवेत् ॥ इति ॥ यच्चोपक्रान्तं दीक्षाप्रकरणं तत्समाप्तं इति ज्ञापकः शि व शब्दः ॥ ४३ ॥ इति श्रीरामेश्वररचितायां सौभाग्योदयनाम्नि परशुरामसूत्रवृत्तौ प्रथमखण्डात्मकं दीक्षाप्रकरणं समाप्तम्
इति प्रथमः खण्डः
द्वितीयः खण्डः-गणनायकपद्धतिः
गणनायकोपास्तिविधिः पूर्वखण्डे दीक्षाविधिं परिसमाप्य श्रीललितोपाम्तिप्रकरणं विवक्षुः तदुपाम्ने: पूर्वाङ्गभूतां श्रीमहागणपत्युपास्ति वक्तुं प्रक्रमते ----
इत्थं सद्गुरोराहितदीक्षः महाविद्याऽऽराधनप्रत्यूहापोहाय गाणनायकी पद्धतिमामृशेत् ॥ १॥
इत्थं पूर्वोक्तप्रकारेण स द्गुरोः शास्त्रोक्तलक्षणसहितगुरोः सकाशात् आ हि ता प्राप्ता दीक्षा येन ईदृशः । एतेन ईदृशदीक्षावत एव श्रीविद्योपास्तावधिकारो नान्यस्य इति सूचितम् । महा विद्या पञ्चदशी षोडशी वा। तम्या आराधनं जपः । यद्वा--म हा वि द्या श्रीललिता, महाविद्यावाच्यत्वात् , वाच्यवाचकयोरभेदात् , तम्या आ रा धनं फलप्राप्त्यन्तं पूजनं, तदुत्पत्तिप्रतिबन्धकीभृताः ये प्रत्यू हाः विघ्नाः -- .. " विघ्नोऽन्तरायः प्रत्यूहः' इत्यमरः--तेषां अपोहा य नाशाय गाण ना यकीं गणेशसंबन्धिनी पद्धतिं मार्ग--.." सरणिः पद्धतिः पद्या वर्तन्यकपदीति च" इत्यमरः-उपासनासरणिमित्यर्थः । आ मृ शे त् स्वीकुर्यात् । अस्याः श्रीललितोपास्त्यङ्गत्वं यथा स्यात् तथोक्तं प्राक् ॥ १ ॥