________________
परशुरामकल्पसूत्रम्
नच उषःकालक्रियायां कादिं हादिं वा मूलविद्यां मनसा दशवारमावर्त्यत्यत्र कादि हादिं वेति विद्याविशेषणं अत्र षोडश्यभावे लिङ्गं इति वाच्यम् ; ताभ्यां विशेषणाभ्यां उषःकालक्रियासन्निधौ पठिताभ्यां तदङ्गत्वेन षोडशी निवर्ततां कामं, तथाऽपि सर्वत्र षोडशीं निवर्तयितुं तयोः का शक्तिः । आरामगमनकाले अश्वमानय इति राज्ञो वाक्येन आरामगमनसाधनशिबिकाऽऽदियानबाधेऽपि अश्वपदघटितं वाक्यं सदा यानान्तरं न बाधितुं समर्थ भवति ॥
तस्मात् षोडश्युपदेशः आवश्यकः सूत्रानुयायिनामपि । इतोऽप्यधिकं सुधीभिराग्रहं परित्यज्य विचार्यम् । धर्मतत्त्वविवेचने स्वमतपक्षपातो नरकायैव भवेत् इत्यलं भूयसा ॥ ३९ ॥
७४
शिष्यनामनिर्देश:
गुरुकर्तृकं कर्मशेषं वदति–
ततस्तस्य शिरसि स्वचरणं निक्षिप्य सर्वान् मन्त्रान् सकृद्वा क्रमेण वा यथाऽधिकारमुपदिश्य स्वाङ्गेषु किमप्यङ्गं शिष्यं स्पर्शयित्वा तदङ्गमातृकावर्णादि द्वयक्षरं त्र्यक्षरं चतुरक्षरं वा आनन्दनाथशब्दान्तं तस्य नाम दिशेत् ॥ ४० ॥
ततः इत्यनेन वक्ष्यमाणानां धर्माणां उत्तराङ्गत्वं सूचितम् । स्वस्य गुरोः चरणं " अनादेशे दक्षिणं प्रतीयात् " इति परिभाषया दक्षिणचरणमेव न्यसेत् । सर्वान् मन्त्रान् प्रकरणेन सर्वपदसंकोचे “ सर्वे हारियोजनं लिप्सन्ति " इतिवत् श्रीविद्याऽङ्गभूतान् गणपति-श्यामा-वार्ताळी-परा- पञ्चदशी - नित्या - रश्मिमाला - मन्त्रादीन् सर्वान् । सकृद्वा इत्यत्र वाकार एवकारार्थः । तदानीमेवेत्यर्थः । क्रमेण वा तत्तदुपासनवेळायां ET । यथाऽधिकारं इत्यनेन व्यवस्थितविकल्पः सूचितः । भक्तिश्रद्धाऽऽधिक्यवतः तदानीमेव किंचिन्न्यूनतद्वतः क्रमेणेति । स्वाङ्गेषु इत्यत्र अङ्गपदं शरीरावयवपरम् । स्पर्श कुर्वित्याज्ञां दद्यात् । ततः शिष्यो यमवयवं स्पृशेत् तत्र मातृ का न्यासे यो