________________
प्रथमः खण्डः - दीक्षाविधिः
अस्तु वा परसंतोषाय पञ्चदशीदीक्षामात्रं सूत्रकाराभिप्रेतम् । तथाऽपि तद्दीक्षावान् अल्पदीक्षावान्, तन्मण्डले षोडशीदीक्षावता तन्त्रान्तरानुयायिना न प्रवेष्टव्यं सेवकगृहे राजप्रवेशवत् इति महेश्वरानन्दनाथा आहुः । तन्न । तथाहि —— दीक्षायामल्पत्वं अल्पाक्षरमन्त्रत्वं वा किमल्पफलसाधनमन्त्रत्वम् । आ श्रीविद्यादीक्षातो वाराह्याः, ततोऽपि श्यामादीक्षायाः वरिष्ठत्वापत्तिः । द्वितीये तन्त्रान्तरे षोडशीदीक्षायाः यत्फलं तदेव अस्यापि फलं श्रूयते, कृतकृत्यो विदितनिखिलवेदितव्यो जीवन्मुक्तो भवतीत्यादिपदैः प्रतीयते । तथाच तुल्यत्वान्न न्यूनदीक्षावत्त्वम् ॥
ननु तर्हि तन्त्रान्तरे पञ्चदशीदीक्षा न्यूनदीक्षा भवतीति श्रूयते । तस्य का गतिः इति चेत् —न ; यस्मिन् तन्त्रे षोडशीपञ्चदश्योः समुच्चयः तस्मित् तन्त्रे पञ्चदश्याः अपरिपूर्णफलत्वात् षोडशीदीक्षायास्तथात्वात् । तन्त्रानुसारिणावुभौ, तत्रैकः पञ्चदश्या दीक्षितः, एकः षोडश्या दीक्षितः, तस्याग्रे कर्तव्यशेषसत्त्वादपरिपूर्ण इति तस्य मण्डले गुरुदीक्षितेन न गन्तव्यमिति युक्तम् । इह तु तुल्यफलं प्रमाणेन सिद्धं, कथं गुरुत्वं लघुत्वम् । विचारयन्त्वनाग्रहेण ||
1
नच कारणलाघवगौरवेण फललाघवगौरवमस्त्येव इति वाच्यम् ; तथा सति केवलवह्न्यर्थिनौ द्वौ । तत्रैकेन लोहपाषाणसंबन्धेन वह्निर्निर्मितः । एकेन अरणिनिर्मथनेन निर्मितः । तत्र पूर्वापेक्षया परस्य वह्निनिर्माणे कालाधिक्यं पुरुषाधिक्यं श्रमाधिक्यमिति बहुकारणगौरवमिति तदीयवह्नेरधिक दाहजनकत्वं स्यात् । एवं बौधायनसूत्रानुसारिदर्शपूर्णमासप्रयोगापेक्षया आपस्तम्बप्रयोगस्य द्विगुणत्वेन आपस्तम्बसूत्रानुयायिनां द्विगुणस्वर्गोत्पत्त्यापत्तिः । आपस्तम्बसूत्रानुसारिणो बौधायनसूत्रानुयायितो गुरुतरत्वापत्तिः । तस्मादधिकफलजनकत्वातिरिक्तं गुरुत्वं दीक्षायां दुर्वचम् ॥
प्रकृते तदभावात् कथं लघुदीक्षावत्त्वं सूत्रानुयायिनः, गुरुसाधने तुल्यफलत्वेऽपि प्रवृत्तिः । स्वपूर्वगुरुपरंपराऽऽगतसाधनमन्तरा तदधिकारिणः फलं न भवतीति शास्त्रेणैव, न फलाधिक्येच्छया । " अतिरात्रे षोडशिनं गृह्णाति ", " नातिरात्रे षोडशिनं गृह्णाति ", इत्यादौ फलतारतम्यव्यवस्थापनं च तादृशशास्त्राभावादधिकारिभेदेन व्यवस्थासंभवाद्युक्तम् । तस्मादत्र न न्यूनाधिकदीक्षाभाव इति । सुधीभिः शेषमूह्यम् ॥ अयं पक्षः परतुष्टये अंगीकृत्य चालितः । वस्तुतस्तु इष्टमन्त्रपदेन षोडशीग्रहणे बाधकाभाव उक्तः प्राक् ॥
10
७३
1