________________
परशुरामकल्पसूत्रम् नाद्यः, एतादृशाभिप्रायनिष्कासकलिङ्गस्य सूत्रे अभावात् । किंचबालामन्त्रस्त्र्यक्षरो न कुत्राप्युद्धृतः स्वयं च बालामुपदिश्येति वदति । एतेनानुद्धृतोऽपि ग्राह्य इति सूत्रकाराभिप्रायः सुस्पष्टः । न च रश्मिमालासु श्रियोऽङ्गत्वेन नवार्णबालाया उद्धृतत्वेन बालामुपदिश्येत्युक्ते सैव ग्राह्या इति वाच्यम् । यदि नवाक्षरीविद्या बालापदेन विवक्षिता तर्हि अग्रे पञ्चदशनित्यामन्त्रोद्धारे “ कुमारी कुलसुन्दरी" इति कुलसुन्दरीमन्त्रे कुमारीवर्णसादृश्यविधानेन तत्रापि नवार्णत्वप्रसङ्गः । इष्टापत्तौ दूषणं कुलसुन्दरीमन्त्रोद्धारे वक्ष्यामः । एवं श्रीविद्यान्यासप्रकरणे बालाद्विरावृत्त्या कुप्तषडङ्ग इत्यत्र नवार्णाद्विरावृत्त्या षडङ्गन्यासस्तु सर्वसंप्रदायविरुद्धः । तस्मान्न नवार्णाऽत्र बाला, किं तु त्र्यक्षर्येव । अत एव रश्मिमालायां नवार्णमन्त्रे श्रियोऽङ्गं बालेत्येवोक्तं न तु बालेति । इतोऽप्यधिकयुक्तिकलापं रश्मिमालामन्त्रोद्धारे वक्ष्यामः । अतः स्यात् त्र्यक्षरी । त्र्यक्षरी बाला तु न वचनोद्धृता, किं तु तन्त्रान्तरे कुप्तं गृहीत्वैवोपदिश्येति व्यवहृतम् । अपि च तत्त्वमन्त्रैः ग्रासयित्वेति सूत्रितम् । मन्त्राश्च नोद्धताः । एवं वाराहीप्रकरणे त्रयो गुणमन्त्राः इत्यादयो नोद्धताः । तेन न सूत्रकारस्यायमभिप्राय इति सिद्धान्तः ॥
न द्वितीयः, तादृशशास्त्रस्य कुत्राप्यनुपलब्धेः ॥
किंच-एतद्दीक्षाऽवसाने शिष्योऽपि पूर्णतां भावयित्वेति विदितवेदितव्य इति अशेषमन्त्राधिकारीति शिष्यविशेषणत्रयं श्रूयते । तत्र पूर्णत्वं गुरोग्राह्यशेषरहितत्वम् । यदि पञ्चदश्यैव अशेषदीक्षापरिपूर्तिः तर्हि शेषस्य षोडशीग्रहणस्य सत्त्वात् पूर्णताभावनाविधानं कथम् । एवमेव विदितवेदितव्यत्वमनुपपन्नम् ॥
न च पञ्चदश्यैव सूत्रकारमते कृतार्थता पूर्णताऽस्तु तेनैव मोक्षसिद्धिरस्तु इति न काऽप्यनुपपत्तिः इति वाच्यम् ; एवमप्यशेषमन्त्राधिकारीत्यत्र किं पञ्चदश्युपदेशेन षोडश्यामप्यधिकारः स्वीक्रियते, अथवा अशेषपदस्य षोडशीभिन्ने संकोचः क्रियते । नाद्यः, पञ्चदश्यपेक्षया षोडश्याः अल्पफलजनकत्वापत्तेः । यो गुरुकार्ये अधिकृतः स लघुकार्ये अधिकृतो भवति । यथा यो गङ्गातरणे अधिकृतः स कुल्यातरणे अधिकृतः । न तु विपरीतं लोके दृष्टम् । न द्वितीयः, संकोचे मानाभावात् ॥
___ तस्मात् एवं निष्पक्षपातेन विचार्यमाणे इष्टमन्त्रपदेन पञ्चदशीषोडश्योः ग्रहणे न किमपि बाधकं पश्यामः ॥