________________
प्रथमः खण्ड:-दीक्षाविधिः बहुवचनेनैव कपिञ्जलन्यायेन त्रित्वलाभे त्रीनिति पुनर्विशेषणात् सकृदेव त्रयाणां न निक्षेपः, किन्त्वेकैकमिति, " द्वौ परिधी परिदधाति" इतिवत् ॥
तत्त्व मन्त्रैः आत्मतत्त्वं शोधयामि नमः स्वाहा, विद्यातत्त्वं शोधयामि नमः स्वाहा, शिवतत्त्वं शोधयामि नमः स्वाहा, इति त्रिभिः । ग्रा स यि त्वे ति णिजन्तश्रवणात् आचार्यानुज्ञाऽनन्तरं भक्षणम् । बा लां व्यक्षरीम् । उ पदिश्ये त्यन्तमङ्गम् । इष्ट मनुं पञ्चदशीषोडशीरूपं व दे त् , उपदिशेदित्यर्थः ॥
ननु नायं षोडश्या उपदेशविधिः, मनु इत्येकवचनेन केवलपञ्चदश्या एव विधिः । न च वैपरीत्ये किं विनिगमकं इति वाच्यम् ; बालोपदेशानन्तरं पञ्चदश्या एव प्रसक्तत्वेन एकवचनेन तस्यैव ग्रहणात्' । किं च अस्मिन् तन्त्रे यदि षोडश्युपदेशोऽभिमतः स्यात् तर्हि तदुद्धारं कुर्यात् । यतोऽस्मिन्ननुद्धारः अत एवानभिमत इति चेत्--न । न हि सर्वत्र विधेयविशेषणानां संख्यावाचकानां विवक्षायामपि प्रकृत्यर्थ एवान्वयः इति नियमः, तदवच्छेदकेनाप्यन्वयस्य दृष्टत्वात् । तथा च जात्यन्वितमेकवचनमुपपन्नम् । तथा सति कथं तदनुसारेण षोडशीनिवृत्तिः । अन्यथा " ब्राह्मणं न हन्यात्' इत्यत्र ब्राह्मणद्वयहनननिषेधो न स्यात् । अस्तु वैकवचनविवक्षा। तथाऽपि न षोडशीनिवृत्तिः, वचनानुसारेण वरिष्ठाया एकस्याः षोडश्या उपदेशानन्तरं पश्चात् श्यामारश्मिमालाऽऽदिविद्योपदेशावसरे पञ्चदश्युपदेशे बाधकाभावात् । अनुद्धारादग्रहणमिति यत् तदपि न । पञ्चदश्या अपि अनुद्धारेण तस्या अप्युपदेशो न स्यात् ॥
न च मूलाधारे विभावनीयरश्मिपञ्चकमध्ये मादनशक्तीत्यनेन सोद्धतेति वाच्यम् ; सा पञ्चदशी न सर्वसाधारण्येनोद्धृता, किंतु रश्मिपञ्चकावयवरूपा । अत एव तत्र तस्याः महाविद्येत्युक्तम् । अन्यथा तस्या इत्यस्य सार्थक्यं ब्रह्मणाऽपि दुरुपपादम् । अतः पूर्वप्रतिपादिताङ्गोपाङ्गप्रत्यङ्गपादुकासहितविद्या एका । तदवयवभूता विद्या कथं प्रधानभूता भवेत् ॥
किं च-स्वतन्त्र अनुद्धतं न ग्राह्यं इति किं सूत्रकाराभिप्रायो निष्कास्यते, अथवा स्वतन्त्रे अनुद्धृतं न ग्राह्यं इति वचनान्तरेण निष्कास्यते ?
1 'न विनिगमनाविरहः' इत्यधिक:-ब २. 2 " नहि एकवचनानुसारेण तत्सिद्धिः" इत्यधिक:-ब २.