________________
परशुरामकल्पसूत्रम् व्योम हकारः, इन्दुः सकारः, औ स्वरूपं, रसनार्ण विसर्गः, लान्तो वकारः, लाङ्गलि ठकारः, शेषं स्पष्टम् ॥
ति सृ भिः श्रीश्यामावार्ताळी विद्या भि: स्त्र प ये त् , सर्वाङ्गे जलसंयोगो यथा । भवति तथा कुर्यात् । ते ने ति विशेषणात् उदकान्तरमपर्याप्तौ न ग्राह्यमिति सूचितम् । अयमेव पूर्णाभिषेक इत्युच्यते ॥ ३८ ॥
मान्त्री दीक्षामुपसंहरति
सदुकूलं सालेपं साभरणं समालं सुप्रसन्नं शिष्यं पार्श्वे निवेश्य मातृकां तदङ्गे विन्यस्य विमुक्तमुखकर्पटस्य तस्य हस्ते त्रीन् प्रथमसिक्तान् चन्दनोक्षितान् द्वितीयखण्डान् पुष्पखण्डान्निक्षिप्य तत्त्वमन्त्रैर्यासयित्वा दक्षिणकर्णे बालामुपदिश्य पश्चादिष्टमनुं वदेत् ॥ ३९॥
स दु कू ल मित्यादि पार्श्वे नि वे श्ये त्यन्तः स्पष्टार्थः । बहिर्मातृकान्यासः स्वाङ्गे तन्त्रान्तरोक्तो यथा क्रियते तद्वच्छिप्याङ्गे विन्यस्य विमुक्त मुख कर्पट स्य पूर्व मुखं येन बद्धं विमुक्तं मुखवस्त्रं यस्य तस्य हस्ते ॥
इदं दीक्षात्रयस्य तन्त्रपक्षे । केचिन्मतानुसारेण क्रमिकदीक्षापक्षे तत्तद्दीक्षाऽन्ते विसर्गः ॥
यद्वा--सूत्रकारस्य तन्त्रदीक्षाया एव अभिमतत्वात् तन्त्रपक्षे एव मुखबन्धनम् ॥
प्रथम सिक्ता न् अत्र प्रथमं असंस्कृतं, “आज्येन यूपमनक्ति" इतिवत् । एवमेव द्वितीयं, “जाघन्या पत्नीः संयाजयन्ति" इतिवत् ॥
वस्तुतस्तु—क्रमस्य पूर्व विधानात् तच्छेषस्य संस्कृतस्य विद्यमानत्वात् , प्रायणीयस्य निष्कासे उदयनीयमभिनिर्वपति इतिवत् उपयोक्ष्यमाणसंस्कारार्थ तावत्कालं पात्रविसर्जनमकृत्वा स्थापितत्वात् संस्कृतप्रथमसिक्तद्वितीयखण्डानामेव दानं, न त्वसंस्कृतस्य ॥