________________
प्रथमः खण्डः-दीक्षाविधिः
कस्थित ठं वं चतुरश्रे मातृकायत्रे शिष्यं निवेश्य तेन कुम्भाम्भसा तिसृभिः विद्याभिः स्नपयेत् ॥३८॥
शि वो हकारः तेन युक्तः सौ वर्णः सौ इति वर्णः स कर्णि कायां कमलमध्यदेशे यस्य एतादृशे । अत्र पूर्वोक्तवर्णोपरि विसर्गोऽपि योजनीयः, “ व्योमेन्द्वौरसनार्णकर्णिकं" इति श्रीशंकरभगवत्पादैः उक्तत्वात् । इमानि सर्वाणि कमलविशेषणानि । स्व राः अकारादिविसर्गान्ताः षोडश तेषां द्वंद्वं द्वयं द्वयं तेन जुष्टं युक्तं कि ञ्ज ल्का ष्ट कं पत्रयुगमध्यवर्तिदेशविशेषः यस्येति बहुव्रीहिः । कश्च चश्च टश्च तश्च पश्च यश्च शश्च ळश्च इति द्वन्द्वः, द्वन्द्वान्ते श्रूयमाणं प्रत्येकं संबध्यते इति न्यायेन वर्ग पदं सर्वैः संबध्यते । तथा च कवर्गमारभ्य पवर्गपर्यन्तं पंचपंचवर्णाः यवर्गश्चत्वारः शवर्गोऽपि तथा ळक्ष इति ळवर्गः एवं अष्ट वगै र्युक्ता नि अष्ट द ळा नि यस्येति बहुव्रीहिः । एकैकदळे एकैकं वर्ग लिखेत् इति फलितार्थः ॥
केसरेषु दळेषु च वर्णलेखने क्रमाकांक्षायां प्राच्यादिक्रम एव धर्तव्यः । यद्यपि दळकेसरयोः द्वयोरपि प्राची न संभवति, तथाऽपि पद्मकुण्डलेखनप्रकारेण लेखने कर्णिकायाः प्राची, तदनुसारेणैव दळेषु वर्णलेखनक्रमोऽनुसन्धयः ॥
दिशां य द ष्ट कं प्राच्यादीशानदिगन्तं तेषु स्थि तौ व कार ठ कारौ यस्मिन् ईदृशं च तु र श्रं यस्मिन्निति बहुव्रीहिः । ईदृशे मातृ का संज्ञके यन्त्रे शिप्यं नि वे श्य स्थापयित्वा ॥
तदित्थं—पद्मकुण्डवदष्टदलं पद्म विलिख्य तबाहिाररहितं चतुरश्रं विलिख्य कर्णिकायां सौः इति विलिख्य प्रागादिकेसरेषु अ आ इति क्रमेण स्वरद्वयमेकैककेसरे स्वरमेकं विलिख्य पत्रान्तः पूर्वोक्तस्थाने काद्यष्टवर्गान् प्रत्येक एकैकस्यान्तः एकै वर्ग विलिख्य तद्बहिश्चतुरश्रे प्रागादिदिगष्टके वं ठं इति लिखेदिति समुदितार्थः । तदुक्तं भगवत्पादैः
व्योमेन्द्रौरसनार्णकर्णिकमचा द्वन्द्वैः स्फुरत्केसरं
पत्रान्तर्गतपञ्चवर्गयशळार्णादित्रिवर्ग क्रमात् । आशास्वश्रिषु लान्तलाङ्गलियुजा क्षोणीपुरेणावृतं वर्णाब्जं शिरसि स्थितं विषगदप्रध्वंसि मृत्युञ्जयम् ॥ इति ॥ .