________________
परशुरामकल्पसूत्रम्
स्थापयित्वेत्यर्थः । कुत्रेत्याकांक्षायां समीपवर्तित्वात् कलश एव । तत्रापि न पूर्णपात्राद्युपरि निक्षिप्येति स्वारस्यात्, किं तु जल एव ॥
यद्यपि उद्धरणस्यानुक्तत्वात् योग्यतावलाच्च कलशसमीपदेशे इत्यपि वक्तुं शक्यम् ; तथाऽपि पूजायां भूमौ चक्रस्थापनं विना पूजाऽसंभवेनार्थापत्त्याऽतिदेशेन वा स्थापनस्य प्राप्तत्वेन क्षिप्त्वेत्यस्य वैय्यर्थ्याभिया जले प्रक्षेप आवश्यकः ||
.६८
,
न च यत्र वचन स्थापनं अर्थापत्त्यादिना प्राप्तं न कलशसमीपदेशे, तदर्थं तत् इति वाच्यम्; कलशसमीपदेशापेक्षया कलशस्यैव आधारत्वकल्पने लाघवात् ॥
किं च कलशसमीपस्थचक्रपूजा न कलशसंस्कारो भवितुमर्हति, तदसंयुक्तत्वात् । अत्र पूर्वं षडङ्गैरभ्यच्येति कलशसंस्कारः । संरक्ष्यास्त्रेणेत्यादिरपि तथा । उभयतः सन्दष्टं कथं तत्संस्कारभिन्नं विजातीयं भवेत् । ततो जल एव चक्राणां क्षेप:, तत्रैव पूजनं, पूजाssरम्भसमय एव जले प्रक्षेपः । तेन आवाहनोत्तरं कथं चक्रचालनमिति शंकाऽनवकाशः ॥ यद्वा – कलशे क्षित्वेति वचनं “ विसर्जनपर्यन्तं न चालयेत्" इत्यस्य बाधकं भवितुमर्हति । युक्तश्चायमेव पक्षः । अन्यथा साङ्गं क्रमं निर्वर्त्यत्यस्य समीप एव कलशे निक्षिप्येति वदेत् ॥
तिसृणां ललिताऽऽदीनां आवरण मन्त्रैरित्यनेन केवलपञ्चोपचारपूजाव्यावृत्तिः । अभ्यर्च्य पूजयित्वा ॥
इदं पूजनं अपूर्व अनेन विधीयते । पूजनोत्तरं उद्धरणं आर्थिकम् । पूजनं तु कुलद्रव्येणैव तत्तद्विशेषार्घ्यपात्रस्थेन कुसुमाक्षतैश्च, अपूर्वपूजामात्रविधानात् । तावन्मात्रं कृत्वा चक्रोद्धरणं कार्यम् । जलादुद्धृतचक्राणामुपरि गन्धपुष्पाक्षतनिक्षेपो न्यायसिद्धः ॥ अस्त्रेण फट् इति मन्त्रेण संरक्ष्य रक्षोभूतपिशाचानां दुराधर्षं कृत्वा । धेनु यो नि मुद्रे प्रसिद्धे, ते प्रदर्श्य तदुपरि कृत्वा ॥ ३७ ॥
मातृकायन्त्रम्
'मातृकायन्त्रमाह
शिवयुक्सौवर्णकर्णिके स्वरद्वन्द्वजुष्टकिञ्जल्काष्टके कचटतपय शळा क्षरवर्गाष्टयुक्ताष्टदळे दिगष्ट
1 तदनन्तरकृत्यमाह-अ, श्री.