________________
प्रथमः खण्डः - दीक्षाविधिः
बाला
जलपूर्णं 'वस्त्रयुगवेष्टितं नूतनकलशं षडङ्गेनाभ्यर्च्य श्रीश्यामावार्ताळीचक्राणि निक्षिप्य तिसृणामावरणमन्त्रैरभ्यर्च्य संरक्ष्यास्त्रेण प्रदर्श धेनुयोनी ॥ ३७ ॥
त्रिकटुः पिप्पलीशुण्ठीमरीच्यः । त्रिफलाः हरीतकीधात्रीविभीतक्यः । तदुक्तं वैद्यसारे—
शुण्ठीमरीचि पिप्पल्यः प्रोक्तास्त्रिकटुसंज्ञकाः ।
त्रिफलेति समाख्याता पथ्याधात्रीविभीतकैः ॥ इति ॥
चतुर्जातं उशीरैलालवङ्गनागकेसराणि । तदुक्तं मदनमहार्णवे ---
लवङ्गमेलोशीरं च त्रिसुगन्धं प्रकीर्तितम् । नागकेसरसंयुक्तं चतुर्जातं प्रचक्षते ॥ इति ॥
तक्को ल: मरीचिसदृशः ताम्बूलेन सह भक्ष्यः शैत्योपचारहेतुः वस्तुविशेषः । मदयन्तीसह देवी वैद्यके प्रसिद्धे आरण्यके । दूर्वा भस्म मृत्तिकाः प्रसिद्धाः ॥
यत्तु मृत्तिकापदेन निबन्धे सप्तमृत्तिकाग्रहणं तन्निर्मूलम् । यदि मृत्तिकापदेन सर्वत्र सप्तमृत्तिकाग्रहणं, तर्हि मूल नक्षत्रजननशान्तौ " सममृद्भिः समायुक्तं पञ्चपल्लवसंयुतम्" इत्यत्र सप्तग्रहणं व्यर्थम् । एवं स्नानार्थ मृदमाहरेत्" इत्यत्रापि तथाssपत्तिश्च ॥
1
एतैर्युक्तमिति जलेन साकं मध्यमपदलोपसमासः, वासितमित्यनेन दूर्वाऽऽदर्शना मन्वयासंभवात् । च न्दनं प्रसिद्धम् । कुङ्कुमं काश्मीरम् । रोच ना गोरोचनम् । कर्पूरं प्रसिद्धम् । एतैर्वासितं यज्जलं तेन पूर्ण, वस्त्र युगेन वेष्टितं नूतनं अभुक्तं कलशं बाला षडङ्गेन ऐं हृदयाय नमः इति क्रमेण बीजत्रयद्विरावृत्त्या असे वक्ष्यमाणरीत्या अग्नीशासुरवायुकोणेषु मध्ये पूर्वादिदिक्षु च क्रमेण । अत्र षडङ्गनाम्ना उक्तधर्मातिदेशः । श्रीश्च श्यामा च वार्ता ळी चेति तासां च काणि निक्षिप्य 1 नवीनवासो – अ, श्री.