________________
परशुरामकल्पसूत्रम्
संविदमिति शेषः । ज्वलदनलनिभत्वादेव पापपाशदाहकत्वमुपपन्नम् । पाप पा श स्य दाह एव न भावनं अत एव द ग्ध्वे ति ॥
___ यद्यपि अत्रत्यपाठक्रममनुसृत्य आदौ शांभवी ततः शाक्तीति प्रतिभाति, तथाऽप्युपक्रमे दीक्षाविभागवेळायां शाक्ती शांभवी मान्त्री चेति चोक्तत्वात् उपक्रमानुसारेण उपसंहारोऽन्यथा नेयः वेदोपक्रमाधिकरणन्यायेन । अत एव तत्पाशदाहानन्तरं तद्भस्मरूपमलस्य सत्त्वात् चरणनिर्गतजलेन तत्क्षाळनरूपार्थवत्त्वादर्थक्रमोऽप्युपपन्नः । तथाचादौ शाक्तीं दीक्षां संपाद्य पश्चाच्छांभवीं कुर्यादिति सिद्धम् ॥
“गुरुः क्रमं प्रवर्त्य " इत्यारभ्य " सिद्धान्तं श्रावयित्वा" इत्येतदन्तोऽङ्गकलापोऽनयोरेव प्रकरणसन्निधिभ्यां, शुन्धनमन्त्रस्येव सान्नाय्ये, इति केचित् । तन्न । तथा सति तृतीयायां दीक्षायां उत्तरत्र "प्रथमसिक्तान् द्वितीयखण्डाग्रान् ग्रासयित्वा" इति विहितं, तदनुपपन्नम् , साङ्गक्रमविधेः तदनङ्गत्वेन तत्र क्रमप्राप्त्यभावेन प्रथमद्वितीययोरभावात् । न च असंस्कृतं लौकिकं ग्रहीतुं शक्यम् । तस्मात् लिङ्गेन सन्निधिं बाधित्वा त्रयाणां अङ्गम् । इत्थं च यदा एकैकां वेति पक्षानुसरणं तदा तृतीयदीक्षायां पूर्वोक्तान्यङ्गान्यनुष्ठेयानि ॥
एतेन निबन्धे “अमृतक्षरणेन बाह्यमाभ्यन्तरं च मलं दूरीकुर्यात् , अथ शिष्यस्यामूलाधारमित्यारभ्य तत्किरणैः तस्य पाशान् दहेत्" इत्यस्य द्वितीयत्वं लिखितं निरस्तम् । पूर्वदीक्षयैव बाह्याभ्यन्तरमलदूरीकरणे अस्मिन् मलस्याभावेन उत्तरदीक्षया दाहासंभवाच्च । न च पूर्वदीक्षया दूरीकृतं मलं बहिस्तिष्ठति तस्योत्तरदीक्षया दाह इति वाच्यम् ; शरीरे विभाविताग्निना शरीरस्थमलस्यैव नाशो भवेत् न दूरीकृतस्य । तस्मादस्मत्सरगिरेव साध्वीति युक्तमुत्पश्यामः ॥ ३६ ॥
मान्त्री दीक्षा मान्त्रीदीक्षाप्रयोगं वक्तुमुपक्रमते
त्रिकटुत्रिफलाचतुर्जाततक्कोलमदयन्तीसहदेवीदूर्वाभस्ममृत्तिकाचन्दनकुङ्कुमरोचनाकर्पूरवासित -