________________
प्रथमः खण्ड:-दीक्षाविधिः
शाम्भवीदीक्षा अथ शांभवीदीक्षामाह
तच्छिरसि रक्तशुक्लचरणं भावयित्वा तदमृतक्षाळितं सर्वशरीरमलं कुर्यात् ॥ ३५ ॥
त च्छि र सि शिष्यस्य शिरसि । रक्त शुक्ल च र णं--रक्तं कामेश्वर्याः रजस्स्वभावात् । तदुक्तं-" रक्तचरणां ध्यायेत् परामम्बिकाम्" इति । श्यामारहस्येऽपि
रक्तं तु चरणं देव्या रजोरूपं प्रकीर्तितम् ।
शुक्लं च तदधिष्ठानचरणं सात्विकं भवेत् ॥ इति ॥ एतेन शुक्लचरणमपि व्याख्यातम् । प्राण्यङ्गत्वादेकवद्भावः । भा व यि त्वा ध्यात्वा त द मृतं चरणसंबन्धि यदमृतं उदकं तेन क्षा ळि तं नाशितं सर्वपातकं यस्य । ईदृशं शिष्यं कुर्यादित्यर्थः । यद्यप्यन्यपदार्थस्य शिष्यस्य करणं न संभवति, तथाऽपि " सविशेषणे हि विधिनिषेधौ सति विशेष्ये बाधे विशेषणमुपसंक्रामतः” इति न्यायेन शिष्यविशेषणस्य पापनाशस्य करणं संभवतीति भावः । तस्य सर्वं यावच्छ रीरं गन्धवस्त्रभूषणकुसुमादिभिः गुरुः अलं कु र्यात् भूषयेत् ॥ ३५ ॥
शाक्तीदीक्षा शाक्ती दीक्षामाह
तस्यामूलमाब्रह्मबिलं प्रज्वलन्तीं प्रकाशलहरी ज्वलदनलनिभांध्यात्वा तद्रश्मिभिस्तस्य पापपाशान् दग्ध्वा ॥ ३६॥
तस्य शिष्यस्य मूलं पायूपस्थमध्यवर्तिचतुर्दळकमलाधारदेशः तन्मर्यादेति आ मू लम् । एवं अधोमर्यादामुक्त्वा ऊर्ध्वमर्यादामाह-ब्रह्मबिलं सहस्रदळकमलाधारभूतं मर्यादा अस्येति आ ब्रह्म बि लं, प्रज्वलन्ती, अत एव प्रकाशा नां ल ह र्यः ऊर्मयो यस्यां तादृशीं, अत एव ज्वालायुक्तो योऽनलोऽग्निः तन्निभां तदुपमां ध्यात्वा,