________________
परशुरामकल्पसूत्रम्
शेषं स्पष्टम् ॥
अत्र पात्रपदेन विशेषार्घ्यपात्रं ग्राह्यम् । कथमेतदिति चेत् इत्थम् । यदि सामान्यायंपात्रमेव स्यात् तस्य प्रणीतावत् तन्त्रसिद्धेः तस्य सर्वसंबन्धिन एकत्वात् सामान्यार्थ्यबिन्दुभिरिति लघु सूत्रितं स्यात् । नच त्वत्पक्षेऽपि विशेषार्घ्यपात्राणां बिन्दुभिरिति लघुसूत्रसंभवात् गणपतिललितेत्यादिप्रयासो व्यर्थ इति वाच्यम् ; एवं सति विधेयसंख्यावाचकबहुत्वस्य त्रित्वे कपिञ्जलाधिकरणन्यायेन 'पर्यवसानात् पञ्चपात्राणामलाभ एव । नच एवमपि पञ्चविशेषार्घ्यपात्रैरिति लघुसूत्रं संभवति इति वाच्यम् ; न वयं सूत्रे अक्षराधिक्यं न्यूनत्वं वा हेतुत्वेनोपदिशामः, किं तु सामान्याय॑पक्षे तस्यैकत्वात् पराऽऽन्तं व्यर्थम् । विशेषार्थ्यपक्षे पञ्चपात्रलाभायति सार्थकम् । अक्षराधिक्यं च स्वतन्त्रेच्छेषु नियन्तुमशक्यम् ।
वस्तुतस्तु न प्रणीतावत्तन्त्रं, सामान्यपात्रम्य गणपतिललिताऽऽदिषु सामान्यार्थ्यसंस्कारस्य एकरूपत्वाभावात् , भिन्नधर्मयोः तन्त्रासंभवात् । न च भिन्नधर्माणां प्रधानानां कथं तन्त्रमिति शंक्यम् । प्रधानानां सहानुष्ठानं तन्त्रं, न तु सकृदनुष्ठानम् । इह तु सकृदनुष्ठानमुक्तं अयुक्तमेव, सहानुष्ठानं तु भवत्येव । अतो नेदं गमकं पात्रपदेन विशेषार्थ्यग्रहणे, किंतु हुत्वा तरुणोल्लासवानित्युक्त्वा पश्चात् पात्रबिन्दुभिरित्युक्तत्वात् होमसाधनीभूतद्रव्यं बुद्धिस्थं पात्रपदेन लक्ष्यते, नत्वबुद्धिम्थं सामान्यार्थ्यद्रव्यम् । किंच बिन्दुशब्दो मुख्यद्रव्ये तान्त्रिकाणां संकेतसिद्धः, " बिन्दुतर्पणसंतुष्टा'' इति ललितासहस्रनाम्नि व्यवहारात् । अत एव बिन्दुशब्दोऽपि गमकः । इत्थं च विशेषार्थ्यग्रहणे इदमेव ज्ञापकम् ॥
तं शिप्यं अवोक्ष्य प्रोक्ष्य । इदं शिप्यसंस्काररूपत्वात् गुरुकर्म । शेषं सुगमम् ॥
तेन निबन्धे गणपत्यादिमूलमुच्चारयन् पात्रपंचकसामान्यार्योदकबिन्दुभिः तमवोक्ष्य इति पङ्क्तिर्या तत्र मूलमुच्चारयन्निति स्वकपोलकल्पिता सर्वा निर्मूला ॥
सिद्धान्तं सिद्धान्तप्रतिपादकवाक्यसमूहं पूर्वोक्तं श्रा व यि त्वा । इदं श्रावणं अदृष्टार्थ “ कुप्तीर्वाचयति" इतिवत् , नाऽर्थज्ञानार्थम् , अतिगहनस्यार्थस्य तावता कालेन बोधासंभवात् । तस्मात् पूर्वोक्तवाक्यानि दीक्षाऽपूर्वसहकार्यपूर्वजनकत्वेन श्रावयेत् ॥ ३४ ॥