________________
६३
. प्रथमः खण्डः-दीक्षाविधिः यद्यपि प्रधानदेवतोपास्तौ इमाः अङ्गदेवता इति अङ्गपदेन व्यवहारो भवतु । प्रकृतपूजायां पञ्चापि समप्रधानानि । अन्यत्र कुप्ताङ्गत्वं गृहीत्वा तेनैव रूपेण गणपत्यादीन् बोधयित्वा सहशब्देन सर्वेषां तन्त्रानुष्ठानमात्रं विधीयते । तन्त्रे सति देवताक्रमः पाठक्रम एव । अग्रे वक्ष्यमाणयावद्रङ्गकलापो नामातिदेशेन प्राप्तः । तत्राङ्गानां येषां तन्त्रं संभवति तेषां तथैवानुष्ठानम् । येषां विरुद्धधर्माणां न संभवति तेषां पदार्थानुसमयेन । येषां च पदार्थानुसमयो न संभवति तेषां काण्डानुसमयेन । यथायथं बुद्धिमता हि कार्य, ग्रन्थविस्तरभयान्नेह लिख्यते ॥
क्रमं प्रव]त्यनेनैव होमम्य प्राप्ती हु त्वा इति होमोत्तरकालम्य शिप्यावानाङ्गतासिद्धयर्थम् ॥
यद्यप्यग्रे क्रमावसरे होमस्य वैकल्पिकत्वात् अत्रापि विकल्पेन प्राप्तौ नित्यत्वद्योतनाय हुत्वेत्यपि वक्तुं शक्यम् ; तथाऽपि अग्रे " गणपति-ललिता-श्यामावार्ताळी-परा-पात्रबिन्दुभिः तमवोक्ष्य" इति वचनात् क्रमसमाप्तिर्नास्तीति सिद्धम् । तर्हि कदा शिप्याह्वानं कार्यमिति कालाकांक्षासत्त्वात् तद्विधानमेवोचितं. न तृभयविधिः. वाक्यभेदप्रसङ्गात् । होमस्याकरणपक्षेऽपि तदुपलक्षितकालोत्तरत्वं संभवति, “ वत्सैरमावास्यायां " इतिवत् । .. एतेन निबन्ध विशेषपात्रविसर्जनान्ते शिप्यमाह्वयति निरस्तः । सर्वेषां विशेषार्घ्यपात्रोद्वासनेन तच्छेषाभावेन पात्रपञ्चकसामान्याोदकबिन्दुभिः तमवोक्ष्यति म्वलेखनस्यैव सन्दर्भविरुद्धत्वाच्च ॥
वस्तुतस्तु हुत्वेति स्वात्मनि हविश्शेषं हुत्वेत्यर्थः स्वरसः । अत एव तादृशाहुतिजनित त रु णो ल्ला स वा न् इति वक्ष्यमाणः स्वरसः । तरुणोल्लासोऽवस्थाविशेषः । तस्य विवरणं चरमखण्डव्याख्याने स्पष्टम् ॥
शि प्य मा हू य इत्यनेन तावत्पर्यन्तं शिप्यस्यान्तःप्रवेशो नास्तीति ज्ञापितम् । तन्नाम संबुद्धयन्तमुच्चार्य एहीति वदेत् । यथा प्रवर्ये गवामाह्वानं कर्माङ्ग इदमपि तथा कर्माङ्गम् । तेनोपायान्तरेण आगमनविषयं स्वाभिप्रायं न प्रकटयेत् इत्यर्थः ॥
एतेन निबन्धे वरणानन्तरं तदैव सशिप्यो विविक्तं दीक्षाप्रदेशमासाद्येति लेख: परास्तः ; समीपवर्तिशिप्यस्य आह्वानासंभवात् । नच अदृष्टार्थ आह्वानं इति वाच्यम् ; दृष्टे संभवति अदृष्टकल्पनाया अन्याय्यत्वात् ।।