________________
परशुरामकल्पसूत्रम् उत्तरकर्मणोऽङ्गत्वं, तद्वदत्रोत्तरमनुष्ठीयमानललितोपास्तेः गणपत्याराधनाङ्गत्वापत्तिः इति वाच्यम् ; न हि क्त्वाप्रत्ययेनैव पूर्ववर्तिनः चयनम्य प्राधान्यनिर्णयः, किं तु " प्रजाकामश्चिन्वीत," " पशुकामश्चिन्वीत" इति फलवत्त्वात् चितेः प्रधानत्वं, तत्सन्निधौ अफलसौत्रामणे: । फलवत्सन्निधावफलं तदङ्गं" इति न्यायेन सौत्रामण्या अङ्गत्वम् । तथा ललितोपास्तेः मुक्तिफलकत्वश्रुत्या विघ्नोपास्तिद्वारा श्रीललितोपासनायाः यत्फलं तदेव तस्येत्यङ्गत्वं कप्तम् । अत एव "रेवतीषु वारवन्तीयं साम कृत्वा पशुकामो ह्येतेन यजेत' इत्यत्र वारवन्तीयसाम्नो न प्राधान्यम् । न च " दर्शपूर्णमासाभ्यामिष्टा सोमेन यजेत' इतिवत् केवलपौर्वापर्यविधिरेव किं न स्यात् इति वाच्यम् ; तत्र " सोमेन यजेत" इत्यनेन सोमस्य, दर्शपूर्णमासयोः यदाग्नेयादिवाक्यैः उत्पन्नत्वात् केवलक्रममात्रविधायकत्वम् , प्रकृते च ललिताकमोत्पत्तिवाक्यान्तराभावात् क्रमविशिष्टकर्मविधानात् । किं च तत्र द्वयोः स्वतन्त्रफलवत्त्वेन, अत्र तथात्वाभावाच्च, न क्रममात्रविधायकत्वं, न वा अङ्गाङ्गिभावहानिः ॥
एतेन " इत्थं सङ्गीतमातृकामिष्ट्वा कोलमुखी विधिवद्वरिवस्येत" इत्यत्रापि परस्पराङ्गाङ्गिभावापत्तिरिति निरस्ता, उभयोरपि राजदर्शनरूपफलकत्त्वेन स्वतन्त्रफलाभावात् ॥
न च एवं सति सौत्रामणिवत् प्रतिप्रयोगमावृत्त्यापत्तिः इति वाच्यम् ; न हि वयं प्रधानाङ्गमिति ब्रूमः, किंतु ललिताक्रमारम्भाङ्गं अन्वारंभणीयावत् । अत एव तस्मिन् वाक्ये · ललिताक्रममारभेत् ' इति श्रुतम् । स्वकर्तृकोपास्तिक्रियाध्वंसानधिकरणक्षणसंबन्धिक्रम निर्वर्तयिप्य इति संकल्प एव आरंभपदार्थः । अयं सकृदेव । अतो नावृत्त्यापत्तिः ॥
एतेन ब्राह्म मुहूर्ते गणपत्युपासनाङ्गत्वेन हृदयकमले गणेशध्यानं ललितोपास्तो तस्या ध्यानं चैककाले प्राप्तं विरुद्धमिति शंकाऽपि निरस्ता ॥
एवं श्यामाया अप्यङ्गत्वं श्यामोपास्तिखण्डे " तस्याः प्रधानसचिवपदं श्यामा" इत्यनेन, कोलमुख्याश्च तत्सपर्याखण्डे " महाराश्याः दण्डनायिकास्थानीया" इत्यनेन, परायाश्च " सिंहासनविद्यायाः हृदयं" इत्यनेन च सुस्पष्टम् ॥
तस्मादिमा अङ्गदेवताः । तासां क्रमसहितं प्रधानदेवतायाः क्रमं कृत्वा इत्यर्थः फलितः ॥