________________
प्रथमः खण्डः - दीक्षाविधिः
६१
च एककालसंबद्धत्वरूपम् । तथा च सर्वा: दीक्षाः सह कुर्यादिति फलितोऽर्थः ॥ ३२ ॥
परेषां मतमाह
एकैकां वेत्येके ॥ ३३ !!
वीप्सया त्रयाणां समुच्चयः, कालभेदमात्रमिति ज्ञापितम् । वा कारण मध्ये चिरकालव्यवधानं कार्यं, न तु दिवसत्रय इति सूचितम् ॥ ३३ ॥ इतः परं गुरुकर्तृकां क्रियामाह -
सद्गुरुः क्रमं प्रवर्त्य साङ्गं हुत्वा तरुणोल्लासवान् शिष्यमाहूय वाससा मुखं बद्ध्वा गणपति- ललिताश्यामा वार्ताळी परा - पात्रबिन्दुभिस्तमवोक्ष्य सिद्धान्तं श्रावयित्वा ॥ ३४ ॥
-
साङ्गं आङ्गैः सहितं क्रमं प्रधानदेवतापूजां प्रवर्त्य कृत्वा । अत्र अङ्गानि गणपतिश्यामावार्ताळीपराः । प्रधानं च ललिता । अत्र अङ्गपदेन अङ्गकमो लक्ष्यते । अङ्गक्रमसहितं प्रधानक्रममित्यर्थः ॥
५
"
ननु इदं कथं ज्ञातमिति चेत् — शृणु । अत्रैव द्वितीयखण्डारम्भे " इत्थं सद्गुरोराहितदीक्षः महाविद्याऽऽराधनप्रत्यूहापोहाय गाणनायकीं पद्धतिमामृशेत् ” इत्यत्र विघ्नापोहाय यत्क्रियते तत्प्रधानं [अ] लोके दृष्टम् । यथा राजदर्शनार्थमुद्युक्तस्य मध्ये द्वारपालैः निरोधे कृते सति तदुपासनं राजदर्शनाङ्गमिति । नच प्राणिमात्रस्य विघ्नशंकासत्त्वात् विघ्ननाशको गणपतिरिति घण्टाघोषात् विघ्नपरिहारार्थं यथा कर्ममात्रे गणपत्याराधनं तथा अत्रापि प्राप्तमेवेति, इदं वचनं व्यर्थमिति वाच्यम् ; विनायकस्तवपाठेनापि क्वचिद्विघ्ननाशप्रतिपादनात् आराधनस्य पक्ष प्राप्तौ श्रीविद्यो - पास्तिविघ्ननिरासोऽनेनैव कार्य इति नियमविधिसंभवात् । एवं तृतीयखण्डादौ " एवं गणपतिमिष्टा विधूतसमस्त विघ्नव्यतिकरः शक्तिचकैकनायिकायाः श्रीललितायाः क्रममारभेत्” इति क्त्वाप्रत्ययेनापि 'अग्निं चित्वा सौत्रामण्या यजेत " इतिवत् ललितोपास्त्यङ्गत्वं स्पष्टम् । न च अग्निं चित्वेति वाक्य पूर्वकर्मणः प्रधानत्वं,
66