________________
परशुरामकल्पसूत्रम्
___ इत्थं च यः पुरुषः सर्वतन्त्राण्युपसंहृत्य यावदङ्गेष्वियत्तां संपाद्य एकरूपं प्रयोगविधिं निर्माय अनुष्ठातुं समर्थः तस्य सर्वज्ञस्य तादृशकर्मणः श्रेयोऽधिक्यं भविप्यत्येव । यस्त्वेतादृशेऽसमर्थः स त्वाकांक्षितादिमानं तन्त्रान्तरात् गृहीत्वा स्वशास्त्रमात्रानुष्ठानेन कृतार्थों भविष्यत्येव । न तु तन्त्रान्तरस्थानां केषां चिदुपसंहारः केषां चिदनुपसंहारः इत्यर्धजरतीयन्यायो युक्तः । निबन्धकारो न्यायगन्धमजानन् स्वेच्छया कानिचिदुपसंहरन् कानिचित् परित्यजन् देवानांप्रिय इति मन्तव्य इत्यलमतिलेखनेन ॥
सर्वथेत्यनेन दीक्षां विना नात्यन्तिकी मुक्तिः इति सूचितम् । तत्र स्पष्टं प्रमाणं त्रिपुरारहस्यस्थं पूर्वमेव लिखितम् ॥ ३१ ॥
दीक्षात्रयम् एवं दीक्षां विधाय तत्र अवान्तरभेदवतीषु तासु एककालसंबन्धं विधातुं आदो तां विभज्य विभागप्रयोजकं धर्म च प्रदर्श्य तासु तिसृप्वपि एककालसंबन्धरूपं गुणं विधत्ते
दीक्षास्तिस्रः शाक्ती शांभवी मात्री चेति । तत्र शाक्ती शक्तिप्रवेशनात् शाम्भवी चरणविन्यासात् मात्री मनोपदिष्टया सर्वाश्च कुर्यात् ॥ ३२ ॥
चे ती त्यन्तेन विभागं कृत्वा तासां नामकथनम् । तत्र तासु मध्य शाक्तीत्यस्यार्थ विवृणोति शक्ति प्रवेश नात् । जातेति शेषः । यद्वाशक्तिप्रवेशनात् इति हेतौ पञ्चमी । शक्तिप्रवेशनाद्या दीक्षा शक्तिप्रवेशहेतुकेत्यर्थः । एवमेवाग्रेऽपि । प्रवेशनादिति स्वार्थे ल्युट् । शक्ति प्रवे श नं नाम अग्रे ‘तदमृतक्षाळितं' इत्यारभ्य 'पाशान् दग्ध्वा' इत्यन्तप्रतिपादिता क्रिया । चरण विन्या सो नाम शिष्यशिरसि गुरुकर्तृकं कामेश्वरीकामेश्वरयोः रक्तशुक्लचरणभावनम् । मन्त्रो पदे श स्तु स्पष्टः, शिष्यमात्रश्रावणविषयगुरुकर्तृकशब्दोच्चारणरूपः । सर्वाः पूर्वोक्ताः । ति स्र श्चेत्यनेन एककालसंबन्धः तासु बोध्यते । च शब्दः साहित्यवाची । साहित्यं