________________
प्रथमः खण्डः--दीक्षाविधिः
न च त्रिपुरारहस्य--
तन्त्रानुक्तं सूचितं तु तथाऽन्येप्वपि दूषितम् । अकृतं यत्कर्म'राम विकल्पेन विवर्जितम् ।
तदन्यस्मादुपादेयमेष शास्त्रस्य निर्णयः ॥ इत्यस्याः गतिविरह इति वाच्यम् ; यम्याननुष्ठाने परशास्त्रे निन्दा स्वशास्त्रे च विकल्पः तस्य तत्र निन्दा यद्विषये परशास्त्रे तदादर्तव्यं, तावता स्वशास्त्रहानिविरहात् । यथा आपस्तम्बसूत्रे वाजपेये अग्निचयननिन्दा, बौधायने न निन्दा कृता, किंतु चोदकशास्त्रेण उत्तरवेद्या सह विकल्पितम् । तत्र स्वशास्त्रस्य उत्तरवेद्यनुष्ठानेऽपि हान्यभावात् निषेधोऽप्यनुग्राह्यः ---उत्तरवेदिरेवानुष्ठेया न चयनमिति ॥
तथा अत्रापि तादृशस्थले अनुष्ठानार्थ इदं वचनम् , न नित्यवच्छूतस्य शास्त्रस्य बाधार्थम् । एतद्वचनस्य गत्यन्तरं श्रीविद्याप्रकरणे विस्तरेण वक्ष्यामः ॥
अस्तु वा
निषिद्धं वर्जयेत्तन्त्रान्तरे किंचिन्महेश्वरि । यतस्तदेकशास्त्रं वै मन्त्रैक्याद्देवतैक्यतः । तस्मात् स्वशास्त्रे यत्किंचिन्निषिद्धं परिवर्जयेत् । अन्यत्स्वतन्त्रानुक्तं तु समर्थ उपसंहरेत् । स्वतन्त्रेणाविरुद्धं तु यावदन्यत् समाचरेत् । तावदभ्युदयाधिक्यं भवेत्तस्य तु निश्चितम् ।
आकांक्षितं चाप्यन्यस्मादाहरेदेव किंचन ॥ इति तन्त्रान्तरवचनानुसारेण पुण्याहवाचनादीनां उपसंहारे फलाधिक्यम् । अननुष्ठाने अवैगुण्यमिति रहस्यम् ॥
पात्राधिक्यं च स्वशास्त्रविरुद्धं हेयमेव, वस्तुतो लिखिततन्त्रवचसां अग्रे पात्रासादनप्रकरणे वक्ष्यमाणरीत्या गतिसंभवात् अनुपपत्तिलेशाभावात् । एकप्रयोगे यत्सूचितं आकांक्षितं कर्मसामान्य अव्यभिचरितसंबन्धं च तत् ] अन्यस्मात् ग्राह्य नान्यदिति राद्धान्तः । एतद्वितत्याने स्पष्टीकरिष्यामः ॥
डामरिवि-अ, अ १.