________________
परशुरामकल्पसूत्रम् मलाभे सूत्रान्तरोक्तशमीशाखा ग्राह्येति । तत्र मूलम्-उक्तालाभे कीदृशी शाखा ग्राह्येति उत्थिताकांक्षावत्त्वात् तत्पूरकं सूत्रान्तरं शमीशाखाविधायकम् । एवं बौधायने---" अग्नीनन्वादधाति" इत्यविशेषेण विहितम् । कथमन्वाधानं कर्तव्यमिति विशेषाकांक्षायां “ अपरेण गार्हपत्यमुपस्थं कृत्वा" इति “ऊर्ध्वजुरासीनोऽन्वाहार्यपचनं" इति सूत्रान्तरोक्तधर्माः शेषत्वेनान्वेतुमर्हन्ति । न तथा पूर्वोक्तैकधानाऽऽकांक्षाऽस्ति । अतो न समुच्चयः ॥
एतेन एतत्सूत्रानुसारिभिरपि तन्त्रान्तरोक्तं पात्रत्रयं पात्रचतुष्टयं का सादनीयमिति यदब्रुवन् तदसाध्विति म्फुटम् । यद्यविशेपेण पात्रासादनं कुर्यादित्येव स्यात् तदा कति पात्राणि कथमासादयेत् इति विशेषाकांक्षा उदेति । तदा तदपवादशास्त्रप्रवृत्तिरपि स्यात् । नचैवमिहास्ति येन तथा स्यात् ॥
एतेन निबन्धे सामयिकानां स्वस्य च तत्त्वशोधनार्थ देव्याः पश्चाद्भागे लौकिकं कलशं संस्थाप्य संस्कृतद्रव्यं किंचित् क्षिपेत् इति लेखोऽपि निर्मूल:, " शिष्टैः सार्धं चिदग्नौ हविःशेषं हुत्वा" इति विशेषार्थ्यशेषस्यैव प्रतिपत्तिकथनात् ॥
अत एव बौधायनाचार्याः शास्त्रसंकरं न कुर्यादित्युक्त्वा संकरकरणे प्रत्यवायमप्याहुः--
म्वशास्त्रे वर्तमानो यः परशास्त्रेण वर्तते ।।
भ्रूणहत्यासमं तस्य स्वशास्त्रमवमन्यतः ।। इति ॥ नचैवं पूर्वोक्तरीत्या अनुष्ठितिरुदासीनस्थले भवतु, यस्याकरणे शास्त्रान्तर निन्दा बह्वी तस्यानुष्ठानं सर्वैः कार्य इति वाच्यम् ; आतञ्चनप्रकरणे “ तद्यत्वलैः राक्षसम् ' इति कलनिन्दां कृत्वा " दनाऽऽतनक्ति" इति शाखाऽन्तरे विहितम् । तदन्यशाखायां “ओषधयः पूतीकाः कलाः" इति क्लैः आतञ्चनं विहितम् । एवं पत्नीसंयाजासमिष्टयजुरनुष्ठाने बहुनिन्दा क्वचिच्छूयते । बौधायनैर्निन्दा न कृता । तावतैव परनिन्दामनादृत्य समिष्टयजुरनुष्ठानं बौधायनानुयायिनः कुर्वन्ति शिष्टाः । तस्मात् परशास्त्रे निन्दा अकिञ्चित्करा ॥
1 तद्व-अ.
2 पित्र्यायां समि-ब, ब१. .