________________
प्रथमः खण्डः-दीक्षाविधिः इति विधिः व्यर्थ एव स्यात् । तस्मात् स्मार्तपुण्याहादिधर्माः कर्माङ्गत्वेन नायान्ति इत्यत्र इदमेव ज्ञापकम् । यच्च “क्षुते आचामेत् ", " न कलचं भक्षयेत्”, इति पुरुषार्थ तच्च प्राप्तमपरिहार्यम् ॥
न च एवं शिष्यगुरुलक्षणधर्माणामपि प्राप्तिः न स्यात् इति वाच्यम् ; अस्ति तस्य प्रास्यवकाशः । तत्र येन विना आकांक्षा न पूर्यते तच्च तन्त्रान्तरस्थमपि गृहीत्वा आकांक्षा पूरयेत् । शाब्दबोधे आकांक्षा द्विविधा, उत्थिता उत्थाप्या चेति । यथा आद्या पचतीत्युक्ते के पचति केन पचति कः पचतीति । द्वितीया स्तोकं पचतीति । तत्र स्तोकपदस्य वैय्यर्थ्यभिया कथं पचति इत्याकांक्षा उत्थाप्या । प्रथमस्थले स्वत उत्थितायाः शाब्दाकांक्षायाः शब्दमन्तराऽनिवृत्तेः अध्याहृतस्य स्थलान्तरस्थस्य वा शब्दस्य पूरणमावश्यकम् । तत्र अध्याहारात् वरं तन्त्रान्तरस्थशब्देनैव आकांक्षापूरणम् । एवं सति “मतिमान् दीक्षेत" इत्युक्ते मतिमत्त्वस्य केवलम्य अव्यावर्तकतया कीदृशं मतिमत्त्वं इत्याकांक्षा अवश्यमुदेति । उदिताकांक्षापूरकं तन्त्रान्तरोक्तशिष्यलक्षणवत्त्वमेव मतिमत्त्वं कल्प्यते । एवं गुरौ “ सद्गुरुः क्रम प्रवर्त्य " इत्यग्रिमसूत्रे उक्तत्वात् , सत्त्वं किं इल्याकांक्षापूरकतया गुरुलक्षणानि च योज्यानि । अत एव बोधायनाचार्या:----" तान्न मिथः संसादयेत्” इत्याहुः । अत्र भवम्वामी " तान् शालिकिशाखोक्तान् पक्षान् तदन्यशाखी न संसादयेत् एकप्रयोगे मेलनं न कुर्यात् । ब्राह्मणानां बहुत्वात् शाखानामनन्तत्वात् तदर्थस्य चासर्वज्ञेन उपसंहर्तुमशक्यत्वात् तावन्मानं सुखं बुद्धा अनुष्ठाय सर्वे कर्मफलं प्राप्नुयुः इति कल्पसूत्राण्यारब्धानि आचार्यैः” इति । अस्यापवादस्तत्रैव " अविशेषोक्तैः विशेषोक्ताश्च शेषत्वेन संबध्यन्ते" इति । अत्र भवस्वामी----." अविशेषोक्तैः विशेषोक्ताः सामान्यत उक्तस्य गुणविशेषाः अन्यसूत्रोक्ता अपि शेषत्वेन अङ्गत्वेन संबध्यन्त इति" । " तान्न मिथः संसादयेत्" इत्यस्योदाहरणं यथा बौधायने सोमाभिषवार्थ केवलवसतीवरीग्रहणम् । सूत्रान्तरे वसतीवरीणां एकधानानामपि समुच्चयः । तदनुसारेण बौधायनानामेकधानाप्राप्तौ तान्न मिथः संसादयेत् इति । एवं बौधायने केवलं शाखाछेदनमात्रमुक्तम् । अन्यसूत्रे शाखाछेदनमाहरणं च समन्त्रकम् । तानपि न संसादयेत् । अनया दिशा अन्यान्यप्युदाहार्याणि । एतदपवादोदाहरणं यथा बौधायने पलाशशाखैव सान्नाय्ये विहिता. तस्यास्तत्सूत्रिणा